________________
श्री सिद्धहेमचन्द्र शब्दानुशासने षष्ठोध्यायः
[ १३९
[ पाद. ३ सू. १४७-१४९ ] इकेकटोः स्त्रियां विशेषः । पुरोडाशाः पिष्टपिण्डाः, तैः सहचरितो मन्त्रः पुरोडाशः तस्य व्याख्यानस्तत्र भवो वा पुरोडाशिक : पुरोडाशिका, पुरोडाशिकी, पुरोडाशानामयं तत्र भवो या पौरोडाशः तत्संस्कारको मन्त्रस्तस्य व्याख्यानस्तत्र भवो वा पौरोडाशिकः, पौरोडाशिका, पौरोडाशिकी | १४६ ।
न्या० स० पुरो०- अणीययोरिति पुरोडाशादणः पौरोडाशादीयस्य प्राप्तिकल्पनायां तु द्वाभ्यामपि प्रायो बहुस्वरादिकणोऽपवादोऽयम् ।
छन्दसो यः ॥ ६. ३. १४७ ॥
छन्दःशब्दाद्ग्रन्थवाचिनस्तस्य व्याख्याने तत्र भवे च यः प्रत्ययो भवति, द्विस्वरेकणोऽपवादः । छन्दसो व्याख्यानस्तत्र भवो वा छन्दस्यः । १४७। शिक्षादेवा ॥ ६. ३. १४८ ॥
शिक्षा इत्येवमादिभ्यश्छन्दः शब्दाच्च ग्रंथवाचिनस्तस्य व्याख्याने तत्र भवे चार्थेण् प्रत्ययो भवति, इकणोपवादः । शिक्षाया व्याख्यानस्तत्र भवो वा शैक्षः, आर्गयनः, छन्दस्, छान्दसः, एवं छन्दस् शब्दस्य द्वैरूप्यं भवति । अण्ग्रहणमीयबाधनार्थम् । नैयायः, वास्तुविद्यः । शिक्षा, ऋगयन, पद, व्याख्यान, पदव्याख्यान, छन्दोव्याख्यान, छन्दोमान, छन्दोभाष, छन्दोविचिति, छन्दोविचिती, छन्दोविजिति, न्याय, पुनरुक्त, निरुक्त, व्याकरण, निगम, वास्तुविद्या, अङ्गविद्या, क्षत्रविद्या, त्रिविद्या, विद्या, उत्पात, उत्पाद, संवत्सर, मुहूर्त, निमित्त, उपनिषद्, ऋषि, यज्ञ, चर्चा, क्रमेतर, लक्ष्ण, इति शिक्षादिः । बहुस्वराणामदुसंज्ञकानामुपादानं प्रायोग्रहणस्य प्रपञ्चः । १४८
न्या० स० शिक्षा ० - अग्ग्रहणमिति ननु किमर्थमत्राणग्रहणं योऽन्येन बाधितो न प्राप्नोतीति न्यायादणेव भविष्यतीत्याशङ्का ।
प्रपञ्च इति ननु दुसंज्ञानामीयबाधनार्थं क्रियतां पाठः, ये तु बहुस्वरा अदुसंज्ञकास्तेषामुपादानं कथं कृतं यतः 'प्रायो बहुस्वरात् ' ६-३ - १४३ इति सूत्रे प्रायोग्रहणादेषां न भविष्यती किंतु अणेवेत्याशङ्का ।
तत आगते ।। ६. ३. १४९ ॥
तत इति पञ्चम्यन्तादागतेऽर्थे यथाविहितमणादय एयणादयश्च प्रत्यया भवन्ति । स्रुघ्नादागतः खौघ्नः, माथुरः, औत्सः, गव्यःः, दैत्यः, बाह्यः, कालेयः, आग्नेयः, स्त्रैणः, पौंस्नः, नादेयः, राष्ट्रियः, ग्रामीणः, ग्राम्यः । मुख्यापादानपरिग्रहात्स्रुघ्नादागच्छन् वृक्षमूलादागत इत्यत्र बृक्षमूलान्नान्तरोयकापादानान्न भवति । १४९ ।