________________
१३८ ]
बृहद्वृत्ति - लघुन्याससंवलिते [ पाद. ३ सू० १४४-१४६ ]
न्या० स० प्रायो०-नातानतिकमिति नतोऽनुदात्तः अनतस्तूदात्तोऽल्पस्वरत्वान्नतस्य पूर्वनिपातः, पौरश्चरणिकमिति पुरो विपाककालादर्वाक् चर्यते पुरश्चरणं 'भूजिपत्यादिभ्यः ' ५-३-१२८. प्रायश्चित्तं तत्प्रतिपादको ग्रन्थोऽपि ।
ऋद्विस्वरयागेभ्यः ॥ ६ ३. १४४ ॥
ऋच् इत्येतस्मात् ऋकारान्तात् द्विस्वरात् यागशब्देभ्यश्च ग्रन्थवाचिभ्यस्तस्य व्याख्याने तत्र भवे चार्थे इकण् प्रत्ययो भवति, अणादेरपवाद: । ऋचां व्याख्यानमृक्षु भवं वा आचिकम्, ऋकारान्त, - चतुर्षु होतृषु भव इत्यणो लुपि चतुर्होता ग्रंथः, तस्य व्याख्यानं तत्र भवं वा चातुर्होतृकम् । एवं पाश्चहोतृकम्, द्विस्वर - आङ्गिकम्, पौर्विकम्, सौत्रिकम्, ताकिकम्, नामिकम्, याग, - आग्निष्टोमिकम्, राजसूयिकम्, वाजपेयिकम्, पाकयज्ञिकम्, नावयज्ञिकम्, पाञ्चौदनिकम्, दाशौदनिकम्, ऋद्यागग्रहणं पूर्वस्यैव प्रपञ्चः । यागेभ्य इति बहुवचनं ससोमकानामग्निष्टोमादीनाम् असोमकानां पञ्चादनादीनां च परिग्रहार्थम् | १४४
न्या० स० ऋगृद्०-नावयज्ञिकमित्यादि नवसु यज्ञेषु पञ्चसु दशसु ओदनेषु भवः अण् तस्य 'द्विगोः ' ७-१-१४४ इति लुप्, ऋयागग्रहणमिति ऋदन्तानां यागवाचिनां च द्विस्वराणां द्विस्वरेत्यंशेन बहुस्वराणां तु 'प्रायो बहुस्वरात् ' ६-३-१४३ इति सिध्यति, एकस्वरास्तु न संभवत्येव तत् किमर्थमिदम् ? इत्याह- पूर्वस्यैवेति 'प्रायो बहुस्वरात् ' ६-३ - २४३ इत्यस्येत्यर्थः । असोमकानामिति अन्यथा गौणमुख्ययोः इति न्यायेन ससोमकानां मुख्यानामग्निष्टोमादीनामेव ग्रहणं स्यादिति ।
ऋषेरध्याये ॥ ६. ३. १४५ ॥
ऋषिशब्देभ्यो ग्रन्थवाचिभ्यस्तस्य व्याख्याने तत्र भवे चाध्याये इकण् प्रत्ययो भवति । वसिष्ठस्य ग्रंथस्य व्याख्यानस्तत्र भवो वा वासिष्ठिकोऽध्यायः, वैश्वामित्रकोऽध्यायः । अध्याय इति किम् ? वसिष्ठस्य व्याख्यानी तत्र भवा वा वासिष्ठी ऋक् । ' प्रायो बहुस्वरात् ' ( ६-३ - ४२ ) इति प्रायोग्रहणादप्राप्तिकल्पनायां विध्यर्थम् प्राप्तिकल्पनायामध्याय एवेति नियमार्थं वचनम् ।१४५।
1
न्या० स० ऋषे० - प्रन्थस्येति वसिष्ठादि साहचर्यात् ग्रन्थोऽपि तथोच्यते । प्राप्ति कल्पनायामिति प्रायोग्रहस्य यादृच्छिकत्वात् ।
पुरोडाशपौरोडाशादिकेकटौ ॥ ६. ३. १४६ ॥
आभ्यां ग्रंथवाचिभ्यां तस्य व्याख्याने तत्र भवे चार्थे इक इकट् इत्येतौ प्रत्ययौ भवतः, अणीययोरिकणोऽपवादः । वचनभेदाद्यथासंख्याभावः ।