________________
श्री सिद्ध हेमचन्द्रशब्दानुशासने षष्ठोध्यायः
[ १३७
[ पाद ३. सू. १४२-१४३ ] चिद्रढो भवति । कर्णिका कर्णाभरणविशेषः पद्माद्यवयवंश्च, ललटिका ललाटमण्डनम् । रूढावित्येव ? कर्णे भवं कर्ण्यम्, ललाटयम्, लकारः स्त्रीत्वार्थः ।१४१।
न्या० स० कर्णललाटा०—पद्माद्यवयवश्चेति कर्णे भवेति भवार्थस्तु व्युत्पत्तिमात्रं पद्माद्यवयवस्य कर्णे अभावात् ।
तस्य व्याख्याने च ग्रन्थात् ।। ६. ३. १४२ ॥
1
ग्रन्थः शब्दसंदर्भः । स व्याख्यायतेऽवयवशः कथ्यते तेन तद्व्याख्यानम् । तस्येति षष्ठ्यन्ताद्व्याख्यानेऽर्थे तत्रेति सप्तम्यन्ताच्च भवेऽर्थे ग्रन्थवाचिनो यथाविहितं प्रत्ययो भवति । चकारस्तत्र भव इत्यस्यानुकर्षणार्थः । वाक्यार्थसमीपे चकारः श्रूयमाणः पूर्ववाक्यार्थमेव समुच्चिनोति । कृतां व्याख्यानं कृत्सु भवं वा कार्तम्, प्रातिपदिकीयम् । ननु च तस्य व्याख्यानेऽर्थे ' तस्येदम् ' (६-३–१५९) इत्यनेनैव प्रत्ययविधिः सिद्धः चकारानुकृष्टेऽपि तत्र भवेऽर्थे पूर्वमेव प्रत्ययविधिरुक्तस्तत्किमनयोर्युगपदुपादानम् ? उच्यते, वक्ष्यमाणः सकलोऽप्यपवादविधिरनयोरर्थयोर्यथा स्यात् इत्येवमर्थम्, उत्तरेणैकयोगत्वे चानुकृष्टत्वात्तत्र भव इत्यस्य ततः परं नानुवृत्तिः स्यात् । योगविभागे विहानुवृत्तिरनर्थकेति द्वयोरुत्तरत्रानुवृत्तिर्भवति । उदाहरणोपन्यासस्तु अनुवादमात्रम् । ग्रन्थादिति किम् ? पाटलिपुत्रस्य व्याख्यानी सुकोसला । पाटलिपुत्रमेवं संनिवेशमिति सुकोसलया प्रतिच्छन्दकभूतया व्याख्यायते न तु पाटलिपुत्रं ग्रंथ इत्युत्तरेणापवादिक इकण् न भवति । १४२ ।
न्या॰ स॰ तस्य०-उदाहरणोपन्यास इति ननु कथमनर्थकत्वं भवानुवर्तनस्य यदि हि भव इति नानुवर्त्तते तदा प्रातिपदिकीयम् इत्यत्रापवादभूत इकण् प्राप्नोति ? न तत्र प्रायोग्रहणादेव न भविष्यति, तर्हि किमर्थं तदुदाहरणं दर्श्यते, इत्याह- अनुवादमात्रम् ।
व्याख्यानीति व्याख्यायते ऽनया वाच्यलिङ्गः । इकण् न भवतीति किंतु 'रोपान्त्यात् ' ६-३-४२ इत्यकञ् ।
प्रायो बहुस्वरादिकण् ॥। ६. ३. १४३ ।।
बहुस्वराद्ग्रन्थवाचिनस्तस्य व्याख्याने तत्र भवे चार्थे प्राय इकण् प्रत्ययो भवति, अणादेरपवादः । षत्वणत्वयोर्व्याख्यानं तत्र भवं वा षात्वणत्विकम् एवं नातानतिकम् । उदात्तानुदात्तयोः स्वरयोरेते नतानतसंज्ञे । आत्मनेपदपरस्मैपदिकम् । आव्ययीभाव तत्पुरुषिकम् । नामाख्यातिकम्, आख्यातिकम्, ब्राह्मणिकम्, प्राथमिकम्, आध्वरिकम्, पौरश्चरणिकम् । प्रायोवचनात्क्वचिन्न भवति । सांहितम्, प्रातिपदिकीयम् । १४३ ॥