________________
१३६ ] . बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ३ सू० १३८-१४१ ] आन्तश्मिकः, आन्तपुरिकः । अव्ययीभावादित्येव ? अन्तर्गतमगारस्य अन्तःस्थं वागारमन्तरगारम् तत्र भवभान्तरगारम् । आन्त:पुरम्, आन्तःकरणम् ।१३७।।
न्या० स० अन्त:०-आन्तश्मिक इति वेश्मनोऽन्तः 'नपुंसकाद् वा' ७-३-८९ (इति) अत्, अन्तर्वेश्मे अन्तर्वेश्म 'सप्तम्या वा' ३-२-४ अम् , अन्तर्वेश्म वा भवः । पर्यनो मात् ॥ ६. ३. १३८॥ .
.. परि अनु इत्येताभ्यां परो यो ग्रामशब्दस्तदन्तादव्ययीभावात्तत्र भवे इकण प्रत्ययो भवति, अणोऽपवादः । ग्रामात्परि परिग्रामम्, ग्रामस्य समीपमनुग्रामम्, तत्र भवः पारिग्रामिकः, आनुग्रामिकः । अव्ययीभावादित्येव ? परिगतो ग्रामः परिग्रामस्तत्र भव: पारिग्रामः आनुग्रामः ।१३८। उपाज्जानुनीविकर्णात् प्रायेण ॥ ६. ३. १३९ ॥
उप इत्येतस्मात्परे ये जानुनीविकर्णशब्दास्तदन्तादव्ययीभावादिकण प्रत्ययो भवति प्रायेण तत्र भवे यस्तत्र बाहुल्येन भवति अन्यत्र च कदाचिद्भवति तस्मिन्नित्यर्थः। जानुन: समीपमुपजानु, प्रायेणोपजानु भवति
औपजानुकः सेवकः, औपजानुकं शाटकम्, औपनीविकं ग्रीवादाम, औपनीविक कार्षापणम्, औपकणिक: सूचकः । प्रायेणेति किम् ? नित्यं भवे माभूत् ।
औपजानवं मांसम्, औपजानवं गड़, जानुशब्दो देहावयवो नोपजानुशब्द इति यो न भवति ।१३९।
रुढावन्तःपुरादिकः ॥ ६. ३. १४०॥ __ अन्तःपुरशब्दात्तत्र भवे इकः प्रत्ययो भवति रूढौ स चेदन्तःपुरशब्द: कचिद्रूढो भवति । क चायं रूढः एकपुरुषपरिग्रहे स्त्रीसमुदाये, उपचारात्तनिवासेऽपि । अन्तःपुरे भवा अन्तःपुरिका स्त्री। रूढाविति किम् ? पुरस्यान्तर्गतम् अन्तःपुरम् यथान्तरङ्गुलो नख इति । तत्र भवः आन्तःपुरः । पुरस्यान्तरन्तःपुरमिति अव्ययीभावात्त्विकण् भवति । आन्तःपुरिक इति ।१४०।
न्या० स० रूढा-अन्त:पुरमिति पुरस्य शरीरस्य अन्तर्गतं चित्तस्थं गृहस्य वाऽन्तर्गतम् , अव्ययीभावादिति रूढाविति वचनात् अव्ययीभावादिति निवृत्तं, अव्ययीभावे रूढेरसंभवात् , अन्तःपुरमिति पत्र राज्ञोऽन्तःपुरमिति राज्ञः स्त्रीवर्ग उच्यते, नासावव्ययीभावार्थो भवति, अव्ययीभावो हि पूर्वपदार्थप्रधानोन्तरर्थप्रधान इति पूर्वेणेकणेव भवतीति ।
कर्णललाटात्कल ॥ ६.३.१४१ ॥ ___ रूढाविति वर्तते । सेह रूढिः प्रकृतिप्रत्ययसमुदायस्य विशेषणम् । कर्णललाटशब्दाभ्यां तत्र भवे कल भवति रूढी प्रकृतिप्रत्ययसमुदायश्रेत्क्व