________________
[पाद. ३. सू. १३४-१३७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [१३५
यज्ञे ञ्यः ॥ ६. ३. १३४ ॥ _____ चतुर्मासशब्दात्तत्र भबे मझे ज्यः प्रत्ययो भवति । चतुर्यु मासेषु भवानि चातुर्मास्यानि यज्ञकर्माणि ।१३।।
गम्भीरपञ्चजनबहिदैवात् ।। ६. ३. १३५ ॥ .. ___गम्भीरपञ्चजनबहिर्देव इत्येतेभ्यस्तत्र भवे ज्यः प्रत्ययो भवति, अणाय. पवादः । गम्भीरे भवो गाम्भीर्यः, पाञ्चजन्यः, बाह्यः, दैव्यः । भवादन्यत्र गाम्भीरः, पाञ्चजनः, द्विगौ त्वलो लुपि पञ्चजनः । बाहीकः, दैवः । भवेऽपि बाहीक इत्येके ।१३५।
न्या० स० गम्भीर०-द्विगौ त्वणो लुपीति यदा पञ्चजनशब्दः पातालवाचकः रथकारपञ्चमस्व चातुर्वर्णस्य वा इति व्याख्या तदा न द्विगुः, असंज्ञायां तस्य विधानात, यदा तु पञ्चसु जनेषु भवस्तदा द्विगौ ज्यः, अस्य विधानसामर्थ्यान्न लुप् ।
परिमुखादेख्ययीभावात् ॥ ६. ३. १३६ ॥ ___ परिमुख इत्येवमादिभ्योऽव्ययीभावेभ्यस्तत्र भचे ज्यः प्रत्ययो भवति । अणोऽपवादः । परितः सर्वतो मुखं परिमुखम् । अत एव वचनादव्ययीभावः । वर्जनार्थो वा परिः । मुखात् परि परिमुखम् । ‘पर्यपाङ्'-(३-१-३२) इत्यादिनाव्ययीभावः । परिमुखे भवः पारिमुख्यः, पारिहनव्यः, पार्योष्ठयः । परिमुखादेरिति किम् ? औपकूलम्, औपमूलम्, औपशाखम्, औपकुम्भम्, औपखलम्, आनुकुम्भम्, आनुकूलम्, आनुखलम् । अव्ययीभावादिति किम् ? परिग्लानो मुखाय परिमुखः तत्र भवः पारि मृखः । परिमुख, परिहनु, पर्योष्ठ पर्युलखल, परिरथ, परिसिर, परिसीर, उपसीर, अनुसीर, उपस्थूण, उपस्थूल, उपकलाप, उपकपाल, अनुपथ, अनुगङ्ग, अनुतिल, अनसीत, (अनुशीत) अनुमाष, अनुयव, अनुयूप, अनुवंश, अनुपद इति परिमुखादिः । अनुवंशाद्दिगादित्वाद्योऽपि अनुवंश्यः ।१३६।
न्या० स० परि०-अत एव वचनादिति न तु 'पर्यपाङ्' ३-१-३२ इत्यादिना पश्चम्यन्तेन सह तेन विधानात् परेश्वात्र वर्जनार्थाभावात् 'पर्यपाभ्याम् ' २-२-७१ इति पञ्चम्यभावः। ___परिसिरेति सिनोतेः 'ऋज्यजि' ३०८ ( उणादि) इति किति रे सिग। परिसीरेति सिनोतेः 'विजि' इति दीर्घत्वे च सीरा ।।
अन्तःपूर्वादिकण च ॥ ६. ३. १३७ ॥ . ___ अन्तःशब्दपूर्वपदादव्ययीभावात्तत्र भवे इकण् प्रत्ययो भवति, अणोऽपवादः। अगारस्यान्तः अन्तरगारम्, तत्र भव आन्तरगारिकः । आन्तर्गेहिकः,