________________
१३४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[ पाद. ३ सू० १३०-१३३ ] युष्मद्वर्ग्यः, युष्मद्वर्गीयः, अस्मद्वर्गीण:, अस्मद्वर्ग्यः, अस्मद्वर्गीयः, अशब्द इति किम् ? कवर्गीयः । १२९ ।
दतिकुक्षिकलशिवस्त्यहे रे यण् ।। ६. ३. १३० ॥
एभ्यः सप्तम्यन्तेभ्यो भवेऽर्थे एयण् प्रत्ययो भवति । अणादीनामपवादः । दृतौ चर्मखल्वायां भवं दार्तेयं जलम्, कुक्षौ देहांशे भवः कौक्षेयो व्याधिः, देशार्थादपि भवे परत्वात् अयमेव न धूमाद्यकञ् । असावप्ययमेव न कुलकुक्ष्याद्येयकञ् । असि कौक्षेयमुद्यम्य, कलश्यां मन्यन्यां भवं कालशेयं तक्रम् । वस्ती पुरीषनिर्गमरन्ध्रे भवं वास्तेयं पुरीषम् । अहौ भवमाहेयं विषम् ॥१३०॥
न्या० स० दृति० - अयमेवेति भवादन्यत्र जातादावर्थे तस्य चरितार्थत्वात् । असावीत खड्गैऽपीत्यर्थः । कलश्यामिति कल्यते स्म के कलितः, कलितं क्षिप्तं परिच्छिन्नमश्नुते व्याप्नोतीति कर्मणोऽणि कलिताशी, पृषोदरादित्वात् कलशिरित्यादेशः ।
आस्तेयम् ।। ६. ३. १३१ ॥
अस्तिशब्दात्तिवन्त प्रतिरूपकाद्व्ययाद्धन विद्यमानपर्यायत्तत्र भवे एयण् प्रत्ययो निपात्यते असृज् शब्दस्य वास्त्यादेशश्चं । धने वा विद्यमाने वा असृजि वा भवमास्तेयम् ।१३१।
ग्रीवातोण् च ॥ ६. ३. १३२ ॥
ग्रीवाशब्दाद्भवेऽर्थेऽण् चकारादेयण् च प्रत्ययौ भवतः देहांशयापवादः । ग्रीवायां ग्रीवासु वा भवं ग्रैवग्रैवेयम्, ग्रीवाशब्दो यदा शिरोधमनीवचनस्तदा तासां बहुत्वाद्बहुवचनम् ।१३२|
न्या० स० ग्रीवातो०- ग्रैवमिति 'ग्रीवेभ्योऽण् च '
इति पाणिनीयसूत्रे बहुवचेन ज्ञापितत्वात् ग्रीवासु भवमिति बहुत्वे एव प्रत्ययो न श्रीवायां भव इत्येकत्वे ।
चातुर्मासान्नानि ॥ ६. ३. १३३ ॥
चतुर्मासशब्दात्तत्रं भवेऽण् प्रत्ययो भवति नाम्नि समुदायश्चेन्नाम भवति । चतुषु मासेषु भवा चातुर्मासी, आषाढी, कार्तिकी, फाल्गुनी च पौर्णमासी भण्यते । अत्र विधानसामर्थ्यात् 'द्विगोरनपत्ये ' – (६ - १ - २४ ) इत्यादिना प्रत्ययस्य लुब् न भवति । नाम्नीति किम् ? चतुर्षु मासेषु भवश्चतुर्मासः । अत्र ' वर्षाकालेभ्यः ' ( ६- ३ - ७९) इतीकणु । तस्य लुप् । १३३ ।