________________
[पाद. ३. सू. १२५-१२९ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [ १३३ पाण्यः । पद्यः । तालव्यः। मुख्यः । जघन्यः । देहांशात्तदन्तादपीच्छन्त्येके । कण्ठतालव्यः, दन्तोष्ठयः। दिश, वर्ग, पूग, गण, यूथ, पक्ष, घाय्या, मित्र, धाय्यमित्र, मेघा, न्याय, अन्तर्, पथिन्, रहस, अलीक, उख, उखा, साक्षिन्, आदि, अन्त, मुख, जघन, मेघ, वंश, अनुवंश, देश, काल, वेश, आकाश, अप् इति दिगादिः ॥ मुखजघनवंशानुवंशानाम् अदेहाशार्थः पाठः, सेनाया यन्मुखं तत्र भवो मुख्यः, सेनाया यज्जघनं तत्र भवो जघन्यः, वंशोऽन्वयस्तत्र भवो वंश्यः। एवमनवंश्यः ।१२४।
न्या० स० दिमा०-अदेहांशार्थ इति देहांशार्थत्वे इति तु अनुवंशस्य मताभिप्रायेण यस्य सिद्धिः, स्वमते तदन्तविधिनिरासात् । नाम्न्युदकात् ।। ६. ३. १२५ ॥
उदकशब्दात्सप्तम्यन्ताद्भवेऽर्थे यः प्रत्ययो भवति नाम्नि । उदक्या रजस्वला । नाम्नीति किम् ? औदको मत्स्यः ।१२५।
न्या. स. नाम्न्यु०-उदक्येति उदके भवा नैमित्तिक आधारः । मध्यादिनण्णेया मोऽन्तश्च ॥ ६. ३. १२६ ॥
मध्यशब्दात्सप्तम्यन्ताद्भवेऽर्थे दिनण् ईय इत्येते प्रत्यया भवन्ति तत्संनियोगे च मागमो भवति । मध्ये भवा माध्यंदिना उदायन्ति, माध्यमः, मध्यमीयः, अन्ये तु दिनं णितं नेच्छन्ति, मध्यंदिनः ।१२६॥ जिह्वामूलागुलेश्चयः ॥ ६. ३. १२७ ॥
जिह्वामूल अलि इत्येताभ्यां मध्यशब्दाच्च भवेऽर्थे ईयः प्रत्ययो भवति, यापवादः । जिह्वामूले भवो जिह्वामूलीयः, अङ्गुलीयः, मध्यीयः, चकारेण मध्यशब्दानुकर्षणं मागमाभावार्थम् ।१२७।
न्या० स० जिह्वा०-यापवाद इति 'दिगादि' ६-३-१२४ इति प्राप्तस्य । वर्गान्तात् ॥ ६. ३. १२८ ॥
वर्गशब्दान्तात्सप्तम्यन्ताद्भवेऽर्थे ईयः प्रत्ययो भवति, अणोऽपवादः । कवर्गीयः, पवर्गीयो वर्णः ।१२८। ईनयौ चाशब्दे ॥ ६. ३. १२९ ॥
वर्गशब्दान्तात्सप्तम्यन्ताद्भवेऽर्थे ईनय इत्येतौ चकारादीयश्च प्रत्यया भवन्ति अशब्दे न चेत्स भवार्थः शब्दो भवति । भरतवर्गीणः, भरतवर्यः, भरतवर्गीयः, बाहुबलिवर्गीणः, बाहुबलिवर्यः, बाहुबलिवर्गीयः, युष्मद्वर्गीणः,