________________
१३२ ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ३ सू. १२०-१२४ ] श्वयुकशब्दः । आश्वयुज्यां कौमुद्यामुप्ता आश्वयुजका माषाः ।११९।
न्या० स० आश्व०-आश्वयुज्यामिति अत एव निर्दशात् 'चन्द्रयुक्तात्' ६-२-६ इति न लुप् । ग्रीष्मवसन्तादा ॥ ६. ३. १२० ॥
आभ्यां सप्तम्यन्ताभ्यामुप्तेऽर्थेऽकञ् प्रत्ययो भवति वा, ऋत्वणोऽपवादः । ग्रैष्मकं, गृष्मम् सस्यम् वासन्तकं, वासन्तं सस्यम् ।१२०। व्याहरति मृगे ॥६. ३. १२१ ॥
तत्रेति, वर्तते कालादिति च, तत्रेति सप्तम्यन्तात्कालवाचिनो व्याहरत्यर्थे यथाविहितं प्रत्ययो भवति व्याहरंश्चन्मगो भवति । निशायां व्याहरति नैशिको नैशो वा शृगालः। प्रादोषिकः प्रादोषो वा शगालः। इति किम् ? वसन्ते व्याहरति कोकिलः ।१२१॥
जयिनि च ॥६. ३. १२२ ।। ___ जयः प्रसहनमभ्यासः। सोऽस्यास्तीति जयी, तत्रेति सप्तम्यन्तात्कालवाचिनो जयिनि वाच्ये यथाविहितं प्रत्ययो भवति । निशासहचरितमध्ययनं निशा तत्र जयी साभ्यासः नैशिकः नैशः, प्रादोषिकः, प्रादोषः, वासन्तः, वार्षिकः । केवलकालविषयस्य जयस्यायोगानिशादिसहचरिताध्ययनादिवृत्तयो निशादयः शब्दाः प्रत्ययमुत्पादयन्ति । चकारः कालादित्यनुकर्षणार्थः तेन चानुकृष्टत्वान्नोत्तरत्रानुवर्तते ।१२२॥
न्या० स० जयानि.-जयस्यायोगादिति जयो हि क्रिया, सा च केवलस्य न संभवतीत्यर्थः । भवे ॥ ६. ३. १२३ ॥
तत्रेत्यनुवर्तते, तत्रेति सप्तम्यन्ताद्भवेऽर्थे यथाविहितमणादय एयणादयश्च प्रत्यया भवन्ति । सत्ता भवत्यर्थो गृह्यते न जन्म जात इत्यनेन गतार्थत्वात्, जुध्ने भवः स्रोघ्नः, माथुरः, औत्सः, नादेयः, राष्ट्रियः, पारावारीणः, ग्राम्यः, ग्रामीणः ।१२३। दिगादिदेहांशाधः ॥ ६. ३. १२४ ॥
दिगादिभ्यो देहावयववाचिनश्च सप्तम्यन्ताद्भवेऽर्थे यः प्रत्ययो भवति, अणीयादेरपवादः। दिशि भवो दिश्यः, वर्ग्य:, अप्सुभवोऽप्सव्यः, 'अपो ययोनिमतिचरे' (३-२-२८) इति सप्तम्यलुप् । देहांश, मूर्धन्यः, " अनोटये" (७-४-५१) इत्यनो लोपाभावः । दन्त्यः । कर्ण्यः । ओष्ठयः ।