________________
[पाद. ३. सू. ११५-११९] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः [ १३१ यस्मिन्स काल उमाव्यासस्तत्र देयमणमुमाव्यासकम् । ऐषमोऽस्मिन्संवत्सरे देयमृणमैषमकम् ।११४।
न्या० स० कला०—इकणादेरिति आदिशब्दात् 'ऐषमोह्यःश्वसो वा' ६-३-१९ इति त्यच्तनटौ ऐषम इति सामान्यविशेषभावेन भूयः सप्तमी, एके तु विशेषाभावं मन्वानाः सप्तम्यर्थादपि प्रत्यय इति च व्याचख्यः । ग्रीष्मावरसमादकञ् ।। ६. ३. ११५ ॥
ग्रीष्म अवरसमा इत्येताभ्यां कालवाचिभ्यां सप्तम्यन्ताभ्यां देये ऋणेऽकञ् प्रत्ययो भवति, अणिकणोरपवादः बकारो वृद्ध्यर्थः। ग्रीष्मे देयमणं ग्रैष्मकम्, अवरा, समा, अवरसमा, समाया, अवरत्वमित्यवरसमं वा । तत्रावरसमकम् । अपरसमादपोच्छन्त्येके । आपरसमकम् ।११५। संवत्सराग्रहायण्या इकण् च ॥ ६. ३. ११६ ।।
संवत्वर आग्रहयणी इत्येताभ्यां सप्तम्यन्ताभ्यां देये ऋणे इकण चकारादकश्च प्रत्ययो भवतः, अणिकणोरपवाद: । संवत्सराद्धि फले पर्वाणि च ऋण प्राप्नोति । संवत्सरे देयमणं फलं पर्व वा सांवत्सरिकम्, सांवत्सरकम्, आग्रहायणिकम्, आग्रहायणकम्, वेत्यकृत्वा इकण चेति विधानं 'संवत्सरात्फलपर्वणोः' (६-३-८९) इत्यण्बाधनार्थम् ११६।
न्या० स० संव०-वेत्यकृत्वेति नन्वाग्रहायण्या वेत्यपि कृते साध्यसिद्धिर्भविष्यतीत्याशङ्का । साधुपुष्यत्पच्यमाने ॥ ६. ३. ११७॥
__ कालादिति वर्तते । तत्रेति सप्तम्यन्तात्कालविशेषवाचिनः साधौ पुष्यति पच्यमाने चार्थे यथाविहितं प्रत्यया भवन्ति । हेमन्ते साधु हैमनमनुलेपनम् । हैमन्तं हैमन्तिकम् । वसन्ते पुष्यन्ति वासन्त्यः कुन्दलताः, ग्रैष्म्यः पाटलाः, शरदि पच्यन्ते शारदाः शालयः, शैशिरा मुद्गाः ।११७। उप्ते ॥ ६. ३. ११८ ॥
तत्रेति सप्तम्यन्तात्कालवाचिन उप्तेऽर्थे यथाविहितं प्रत्ययो भवति । शराप्ताः शारदा यवाः । हेमन्ते हैमनाः, गृष्माः, नैदाधाः योगविभाग उत्तरार्थः ।११८। . आश्वयुज्या अकञ् ॥ ६. ३. ११९ ॥
आश्वयुजीशब्दात्सप्तम्यन्तादुप्तेऽर्थेऽकञ् प्रत्ययो भवति, इकणोऽपवादः । अश्विनीभिश्चन्द्रयुक्ताभिर्युक्ता या पौर्णमासी सा आश्वयुजी, अश्विनीपर्यायोऽ.