________________
१३० ] बृहवृत्ति-लघुन्याससंवलिते [पाद. ३. सू. ११०-११४ स्थानान्तगोशालखरशालात् ॥ ६. ३. ११० ॥
स्थानशब्दान्तानाम्नो गोशालखरशाल इत्येताभ्यां च सप्तम्यन्ताभ्यां परस्य जातेर्थे प्रत्ययस्य लुब्भवति नाम्नि । गोस्थाने जातो गोस्थानः, अश्वस्थानः, गोशाले गोशाल:, खरशाले खरशालः, लिङ्गविशिष्टस्यापि ग्रहणादोस्थान्यां गोस्थानः । गोशालायां गोशालः, खरशालायां खरशालः । 'यादेगौणस्य' (२-४-९४) इत्यादिना स्त्रीप्रत्ययस्यापि लुक् ।११०।
न्या० स० स्थाना०-गोशाले इति अत्र तत्पुरुषे कृते परवल्लिङ्गतायां प्राप्तायां 'सेनाशाला' इति पक्षे नपुंसकत्वात् ह्रस्वत्वे गोशाले जात इत्यादिविग्रहः । वत्सशालादा ॥ ६. ३. १११॥
वत्सशालशब्दात्सप्तम्यन्तात्परस्य जातेऽर्थे प्रत्ययस्य वा लुप् भवति नाम्नि । वत्सशालः, वात्सशालः ।१११॥ सोदर्यसमानोदयौँ ।। ६. ३. ११२॥
सोदर्यसमानोदर्यशब्दौ जातेऽर्थे यप्रत्ययान्तौ निपात्येते । समानोदरे जातः सोदर्यः, समानोदर्यः । निपातनात्पक्षे समानस्य सभावः, तत एव च जातार्थमात्रत्वेऽपि भ्रातृष्वेवाभिधानम् न कृमिमलादिषु । नाम्नीत्यधिकाराद्वा ।११२॥ कालाद्देये ऋणे ॥ ६. ३. ११३ ॥
तत्रेति वर्तते, तत्रेति सप्तम्यन्तात्कालविशेषवाचिनो देयेऽर्थे यथाविहितं प्रत्ययो भवति यत्तद्देयमणं चत्तद्भवति, नाम्नीति निवृत्तम् । मासे देयमणं मासिकम्, आर्धमासिकम्, सांवत्सरिकमृणम् । मासादिके गते देयमित्यर्थः । ऋण इति किम् ? मासे देया भिक्षा । स्वातौ देयं स्वस्तिवाचनम् ।११३। कलाप्यश्वत्थयवबुसोमाव्यासैषमसोऽकः ॥ ६. ३. ११४ ॥
कलापिन् अश्वत्थ यवबुस उमाव्यास ऐषमस् इत्येतेभ्यः कालवाचिभ्यः सप्तम्यन्तेभ्यो देय ऋणेऽकः प्रत्ययो भवति । इकणादेरपवादः । यस्मिन्काले मयूराः केदाराः इक्षवः कलापिनो भवन्ति स कालस्तत्साहचर्याकलापी तत्र देयमणं कलापकम् । यस्मिन्कालेऽश्वत्था: फलन्ति स कालोऽश्वत्थफलसहचरितोऽश्वत्थः तत्र देयमृणमश्वत्थकम् । यस्मिन्काले यवानां बुसं भवति स कालो यवबुसम् तत्र देयम्णं यवबुसकम् । उमा व्यस्यन्ते विक्षिप्यन्ते