________________
। पाद. ३. सू. १०६-१०९] श्रीसिद्धहेमचन्द्रशब्दानुशासने पष्ठोध्यायः [१२९ फल्गुन्याष्टः ॥ ६. ३. १०६ ॥
फल्गुनीशब्दात्सप्तम्यन्ताज्जातेऽर्थे टः प्रत्ययो भवति नाम्नि, भाणोऽपवादः । फल्गुन्योर्जातः फल्गुनः, फल्गुनी स्त्री। अणमपीच्छन्त्येके । फाल्गुनः, टकारो ङ्यर्थः ।१०६॥ बहुलानुराधापुष्यार्थपुनर्वसुहस्तविशाखास्वातेल्प् ॥६.३.१०७॥
बहुलादिभ्यः सप्तम्यन्तेभ्यः परस्य भाणो जातेऽर्थे लुप् भवति नाम्नि । बहुलाः कृत्तिकाः ताभिश्चन्द्रयुक्ताभिर्युक्तः कालो बहुलाः तासु जातो बहुलः । अत्राणो लुपि 'यादेर्गौणस्य'-(२-४-९४ ) इत्यादिनापोऽपि लुप्, एवमनुराधासु अनुराधः । 'घञ्युपसर्गस्य बहुलम्' (३-२-८६) इति दीर्घत्वे अनुराधाः, तासु अनुराधः, पुष्यार्थ-पुष्ये पुष्यः, तिष्यः, सिध्यः । पुनर्वसौ पुनर्वसुः, हस्ते हस्तः, विशाखायां विशाखः, स्वातौ स्वातिः ।१०७। ___ न्या० स० बहुल-पुनर्वसाविति अत्र प्रागेव एकैव तारा विवक्षितेति 'पुष्यार्थात् ' ३-१-१२९ इति सूत्रं विनाऽपि सिद्धं पुंलिङ्गश्चायम् । चित्रारेवतीरोहिण्याः स्त्रियाम् ॥ ६. ३. १०८।।
चित्रादिभ्यः सप्तम्यन्तेभ्यः परस्य भाणो जातेऽर्थे स्त्रियां लुप् भवति नाम्नि । चित्रायां जाता चित्रा माणविका, रेवत्यां रेवती, रोहिण्यां रोहिणी, स्त्रियामिति किम् ? चैत्रः रेवतः रोहिणः, पुंस्येषां विकल्प इत्येके । तन्मते चित्रः रेवतः रोहिण इत्यपि भवति ।१०८। बहुलमन्येभ्यः ॥ ६. ३. १०९ ॥
अविष्ठादिभ्यो येऽन्ये नक्षत्रशब्दास्तेभ्यः सप्तम्यन्तेभ्यः परस्य भाणो जातेऽर्थे बहुलं लुप् भवति नाम्नि । अभिजिति जातोऽभिजित्, आभिजितः, अश्वयुजि जातः अश्वयुक्, आश्वयुजः, शतभिषजि शतभिषक् शातभिषजः, शातभिषः, 'वा जाते द्विः' (६-२-१३७) इति विकल्पनाणो डित्त्वादन्त्यस्वरादिलोपः। कृत्तिकासु कृत्तिकः, कार्तिकः, मृगशिरसि मृगशिराः मार्गशीर्षः, एषु वा लोपः। कचिन्नित्यम् । अश्विनीषु जातः अश्विनः, अश्विनी, राधः, राधा, श्रवणः, श्रवणा, उत्तरः, उत्तरा। कचिन्न भवति, मघासु माघः, अश्वत्थे आश्वत्थः, प्रोष्ठपदासु प्रोष्ठपादः, भद्रपादः, 'प्रोष्ठभद्राजाते' (७-४-१३) इत्युत्तरपदवृदिः ।१०९।