________________
१२८ ] बृहवृत्ति-लघुन्याससंवलिते [पाद. ३ सू० १०२-१०५ ] पूर्वाहापराला मूलप्रदोषावस्करादकः ॥ ६. ३. १०२॥
तत्रेति सप्तम्यन्तेभ्यः पूर्वाल्लादिभ्यो जातेऽर्थेऽकः प्रत्ययो भवति नाम्नि, इकणादेरपवादः । पूर्वाह्न जातः पूर्वाह्नकः, अपराहकः, अत्रेकण्तनटोरपवादः । आर्द्रकः, मूलकः, अत्र भाणः, प्रदोषकः, अत्रेकणणोः, अवस्करकः, अत्रौत्सगिकाणः । नाम्नीत्येव ? पौर्वाह्निकम्, पूर्वाह्नतनम्, आपराह्निकम् अपराहेतनम् आर्द, मौलं, प्रादोषिकं, प्रादोषम, आवस्करम् । केनैव सिद्धेऽकविधानमाद्रिकेत्येवमर्थम् । अन्यथा खट्वाका खट्वका खट्विकेतिवत् के रूपत्रयं स्यात् ।१०२।
पथः पन्थ च ॥ ६. ३.१०३ ॥ - पथिन्शब्दात्सप्तम्यन्ताज्जातेऽर्थेऽकः प्रत्ययो भवति पथिन् शब्दस्य च पन्थादेशो नाम्नि, अणोऽपवादः । पथि जातः पन्थकः ।१०३। अश्व वाऽमावास्यायाः ॥ ६. ३. १०४ ॥
अमावास्याशब्दात्सप्तम्यन्ताज्जातेऽर्थेऽकारोऽकश्च प्रत्ययौ वा भवतः नाम्नि, सन्ध्याद्यणोऽपवादः। अमावास्यायां जातः अमावास्यः, अमावास्यकः, पक्षे संध्याद्यण् । आमावास्यः, एकदेशविकृतस्यानन्यत्वात् अमावस्याशब्दादपि भवति । अमावस्यः, अमावस्यकः, आमावस्यः । नाम्नीत्येव ? आमावास्यः ।१०४।
न्या० स० अश्च०-अमावस्याशब्दादिति ‘वाऽधारेऽमावस्या' ५-१-२१ इति ध्यणि वाहस्वत्वनिषातनात् । श्रविष्ठाषाढादीयश्च ॥ ६. ३. १०५॥
श्रविष्ठा अषाढा इत्येताभ्यां जातेऽर्थे ईयण चकारादश्च प्रत्ययो भवतः नाम्नि, भाणोऽपवादः । श्रविष्ठाः धनिष्ठाः, ताभिश्चन्द्रयुक्ताभिर्युक्तः कालः श्रविष्ठाः तासु जातः श्राविष्ठीयः, श्रविष्ठः । एवम् अषाढायामषाढयोरषाढासु वा जातः आषाढीयः अषाढः, अणमपीच्छन्त्येके । श्राविष्ठः आषाढः ।१०५॥ . न्या० स० श्रविष्ठाषाढा-श्रविष्ठा इति शृणोत्यनेनास्मिन्निति वा 'पुन्नाम्नि' ५-३-१३० इति घः, श्रवो विद्यते अस्यां मतुींः , ‘मावर्ण' २-१-९४ इति वादेशे श्रववती, तत आतिशायिके इष्टे 'जाति' ३-२-५१ इति पुंवद्भावे ‘विन्मतोर्णीष्ठेयसौ' ७-४-३२ इति मतोलृपि श्रविष्ठाः ताभिः ।
अषाढायामिति अषाढा नक्षत्रमेकद्वित्रितारकं च मन्यन्ते ।