________________
[पाद. ३. सु. ९८-१०१ श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [१२७ रूपमापद्येत । अश्मन् अशनि आकर्षत्सरु, पिशाच, पिचण्ड, पाद, शकुनि, निचय, जय, नय, हाद, ह्राद इत्यश्मादिः ।९७।
न्या० स० कोऽश्म-प्रत्ययान्तरकरणमिति ननु ‘पथोकः' ६-३-९६ इत्यतोऽकेनैव साध्यसिद्धिर्भविष्यति किं करणेनेति ? अनिष्टमिति ‘अवर्णवर्णस्य ' ७-४-९८ इति प्रसङ्गात् । जाते ।। ६. ३. ९८ ॥
तत्रेति सप्तम्यन्ताज्जातेऽर्थे यथाविहितमणादय एयणादयश्च प्रत्यया भवन्ति । सुघ्ने जातः स्रौघ्नः, एवं माथुरः, अण्-औत्सः, औदपानः, अञ्बाह्यः, बाहीकः, ञ्यटीकणौ-कालेयः, आग्नेयः, 'कल्यग्नेरेयण' (६-१-१७)। स्त्रैणः, पौंस्न, 'प्राग्वतः स्त्रीपुसान्नस्नञ्' (६-१-२५)। नादेयः, एयण, राष्ट्रियः, इयः पारावारीणः, ईनः ग्राम्यः, ग्रामीणः, येनौ-कात्रेयकः । 'कन्यादेश्चयका' (६-३-१०)। तत्रेत्येव । चैत्राज्जातः। जात इति किम् ? शयने शेते । आसने आस्ते, स्वयमुत्पत्तिर्जातस्यार्थ इति कृतादिभ्यो भेदः ।६८ प्रावृष इकः ॥ ६. ३. ९९ ॥
तत्रेति सप्तम्यन्तात्प्रावृष्शब्दाज्जातेऽर्थे इकः प्रत्ययो भवति, एण्यस्यापवादः। प्रावृषि जातः प्रावृषिक: ।९९। नाम्नि शरदोऽकञ् ॥ ६. ३. १००॥
शरदित्येतस्मात्सप्तम्यन्ताज्जातेऽर्थेऽकञ् प्रत्ययो भवति नाम्नि प्रकृतिप्रत्ययसमुदायश्चेत्कस्यचिन्नाम भवति, ऋत्वणोऽपवादः । शारदका दर्भाः, शारदका मुद्राः । दर्भविशेषाणां मुदविशेषाणां चेयं संज्ञा । नाम्नीति किम् ? शारदं सस्यम् । १००। सिन्ध्वपकरात्काणौ ॥ ६. ३. १०१॥
सिन्धुअपकर इत्येताभ्यां सप्तम्यन्ताभ्यां जातेऽर्थे कु अण इत्यतौ प्रत्ययौ भवत: नाम्नि । सिन्धोः कच्छाद्यकत्रणोः अपकराच्चौत्सर्गिकाणोऽपवादः, वचनभेदाद्यथासंख्याभावः । सिन्धौ जातः सिन्धुकः सैन्धवः अपकरे कचवरे जातः अपकरकः, आपकरः । नाम्नीत्येव ? सैन्धवको मनुष्यः । नाम्नीत्यधिकारः 'कालाद्देय ऋणे' (६-३-११२) इति सूत्रं यावत् अन्ये तु नाम्नीत्यधिकारं नेच्छन्ति ।१०१॥