________________
१२६ ]
9
बृहद्वृत्ति - लघुन्यास संवलिते [ पा० ३. सू० ९४-९७ ] अश्वत्थामनि भवो जाता वा अश्वत्थामा । ' अः स्थ म्नः [ ६-१-२२ ] -इत्यः । तस्यं लुप् । सिहाजिने भवों जातो वा सिंहांजिनः उलाजिनः, नृकाजिनः । भवार्थस्यैव लुपमिच्छन्त्यन्ये तन्मते अश्वत्थाम्नोऽयं तर्त आगतो वा अश्वत्थामः, एवं हाजिनः वार्काजिनः इत्यादी न भवति । ९३ ।
तत्र कृतलब्धकीत संभूते ॥ ६. ३. ९४ ॥
अणादय एयणादयश्च सविशेषणा अनुवर्तन्ते तत्रेति सप्तम्यन्तात् कृते लब्धे की संभूते चार्थे यथायोगमणादय एयणादयश्व प्रत्यया भवन्ति । यदन्येनोत्पादितं तत्कृतम् । यत्प्रतिग्रहादिना प्राप्त तल्लब्धम्, यन्मूल्येन स्वीकृतम् तत् क्रीतम् । यत्संभाव्यते संमाति वा तत्संभूतम् । स्रुध्ने कृतों लब्धः क्रीतः संभूतो वा स्रौघ्नः, एवं माथुरः, अत्राणं औत्सः उत्साद्यञ् । बाह्यः, बाहीकः । 'बहिषष्टीकणच (६-१-१६) । नादेयः नद्यादित्वादेयण् । राष्ट्रियः । ' राष्ट्रादिय:' ( ६-३-३ ) । पारावरीण: । ' पारावारादीनः (६-३-६) । तत्रेति किम् । देवदत्तेन क्रीतः । कृतलब्धक्रीतसंभूत इति किम् ? शेयने शेते, आसन आस्ते | ४ |
1
•
"
न्या० स० तत्र ० - यत्संभाव्यते इति उत्पत्तिज्ञानं संभावना, तत्र उत्पद्यते तत्र घटते इत्यर्थः । समाति चेति प्रमाणानतिरेकेणावतिष्ठते । तत्संभूतमिति संमात्यर्थे अकर्मकत्वाच्छील्या दित्वात् सति कर्त्तरि क्तः, इतरे तु अन्तर्भूतव्यर्थत्वात् कर्मणि क्तः ।
कुशले ॥ ६. ३. ९९ ॥
तत्रेति सप्तम्यन्तात्कुशलेऽर्थे यथाविहितमणादय एयणादयश्च प्रत्यया भवन्ति । स्रुध्ने कुशल: स्रौघ्नः माथुरः नादेयः, राष्ट्रियः, योगविभाग उत्तरार्थः । ९५।
पथोऽकः ।। ६. ३.९६ ॥
तत्रेति सप्तम्यन्तात्पथिन्शब्दात्कुशलेऽर्थेऽकः प्रत्ययो भवति, अणोऽपवादः । पथि कुशलः पथकः । ९६ ।
कोऽश्मादेः ।। ६. ३. ९७ ॥
तत्रेति सप्तम्यन्तेभ्योऽश्मन् इत्यादिभ्यः कुशलेऽर्थे कः प्रत्ययो भवति । अणादेरपवादः । अश्मनि कुशल: अश्मकः, अशनिकः आकर्षकः । अश्मादय उपचारात्तद्विषयायां क्रियायां वर्तमानाः प्रत्ययमुत्पादयन्ति तत्रैव कुशलार्थयोगात् । प्रत्ययान्तरकरण मिकारोकारान्तशब्दार्थम् । अन्यथा तेषु अनिष्टं
"