________________
[ पाद. ३ सू. ९०-९३ ] श्रीसिद्धहेमचन्द्र शब्दानुशासने षष्ठोध्यायः
[ १२५
अण्ग्रहणं स्वातिराधार्द्रापौर्णमासीभ्य ईयबाधनार्थम् । यथाविहितमित्युच्यमाने दोरीय इतीयः प्राप्नोति । कालेभ्य इत्येव ? स्वातेरिदमुदयस्थानम् स्वातीयम्, एवं राधीयम्, आद्र्यम् । सन्ध्या सन्धिवेला अमावास्या त्रयोदशी, चतुर्दशी, पञ्चदशी, पौर्णमासी, प्रतिपत्, शश्वत् इति संध्यादिः । 'ऋवर्णोवर्णात् '( ७ - ४ -७१ ) इति सूत्रेऽशश्वदिति प्रतिषेधाच्छश्वच्छब्दात् इकणपि । शाश्वतम् शाश्वतिकम् ।८९।
"
न्या० स० भर्तु● एकदेशविकृतस्येति 'वाधारेमावस्या १-१-२१ इति ह्रस्वत्वे एकदेशविकृतत्वम् । अणुग्रहणमिति अन्यथा योऽन्येन बाधितो न प्राप्नोति स भवति, स चाणेवेति न्यायात् सिद्धं किं तद्ग्रहणेन ? ईमबाधनार्थमिति ननु कालेकणू प्राप्नोति तत् किमुक्तं ईयबाधनार्थमिति ? सत्यं, सूत्रकरणात् कालेकणू न भवति ।
इकणपीति 'वर्षाकालेभ्यः ' ६-३-८० इत्यनेन, न वाच्यं प्रयोजनेकणि चरितार्थः, यतः प्रयोजनार्थे इकण् अस्मान्नेष्यत एव ।
संवत्सरात्फलपर्वणो ॥ ६. ३. ९० ॥
संवत्सरशब्दात्फले पर्वणि च शेषेऽर्थेऽण् प्रत्ययो भवति । सांवत्सरं फलम्, सांवत्सरं पर्व । फलपर्वणोरिति किम् ? सांवत्सरिकं श्राद्धम् । ९०
हेमन्ताद्वा तलुक् च ॥ ६. ३. ९१ ॥
हेमन्तशब्दादृतुविशेषवाचिनः शेषेऽर्थेऽण् वा भवति तत्संनियोगे च तकारस्य लुग्वा भवति । नित्यमणि प्राप्ते विभाषा । तथा त्रैरूप्यम्, हैमनम्, हैमन्तम्, हैमन्तिकम्, तदन्तविधिना पूर्व हैमनम् । ' अंशादृतोः ' [ ७–४–१४ ] इत्युत्तरपदवृद्धिः । ९१।
प्रावृष एण्यः ।। ६. ३. ९२ ॥
प्रावृष् इत्येतस्मात् ऋतुवाचिनः शेषेऽर्थे एण्यः प्रत्ययो भवति, अणोऽपवादः । प्रावृषि भवः प्रावृषेण्यः । जाते तु परत्वादिक एव । प्रावृषि जातः प्रावृषिकः, एण्य इति प्रत्यये मूर्धन्यो णकारो निर्निमित्तकः प्रावृषेण्ययतीति ण्यन्तात् किपि प्रावृषेण् इति मूर्धन्यार्थः । ९२ ।
>
न्या० स० प्रारृ० निर्निमित्तक इति न तु 'रषृवर्ण २-३ - ६३ इत्यनेन मूर्धन्यार्थ इति, अन्यथा न लोपरूपे परे कार्ये ' णषम' २-१-६० इति णत्वस्यासत्त्वादन्यत्वाच्च 'रवर्णः ' २-३-६३ इत्यप्रवृत्तौ ‘नाम्नो नोनह्नः ' २-१-९१ इति नलोपेऽनिष्टं रूपं स्यात् ।
स्थामाजिनान्ताल्लुप् ॥ ६. ३. ९३ ॥
स्थाम न्शब्दान्तादजिनान्ताच्च परस्य शैषिकस्य प्रत्ययस्य लुप् भवति ।