________________
१२४ ]
बृहद्वृत्ति - लघुन्यास संवलिते
[ पाद. ३ सू० ८६-८९ ]
परितमित्यस्यात्, परुन्तनमित्यत्र तु अन्त्यस्वरात् परस्य तकाराच्च प्राक् स्थितस्य
न स्यात् ।
"
पुरोनः ॥ ६.३.८६ ॥
पुराशब्दात् कालवाचिनोऽव्ययाच्छेषेऽर्थे नः प्रत्ययो भवति वा । पुरा भवं पुराणम्, पुरातनम् ॥८६॥
पूर्वापात्तन ॥ ६. ३. ८७ ॥
पूर्वाह्न अपराह्न इत्येताभ्यां कालवाचिभ्यां शेषेऽर्थे तनट् प्रत्ययो वा भवति । ' वर्षाकालेभ्य: ' ( ६-३-७९) इति नित्यमिकणि प्राप्ते विकल्प:, तेन पक्षे सोऽपि भवति, पूर्वाह्न जातो भवो वा पूर्वाह्नतनः । पूर्वाह्नतनः, अपराह्णेतनः, अपराहृतनः, ' कालात्तन' ( ३-२-२४) इत्यादिना वा सप्तम्या अलुप् । पूर्वाह्णे जयी पूर्वाहृतनः अपराहृतनः । अत्र जयिनि वाच्ये तत्र व्यवस्थितविभाषाविज्ञानात् नित्यं सप्तम्या लुप्, पक्षे पौर्वाह्निकः, आपराह्लिकः । टकारो ङयर्थः । पूर्वाह्णेतनी, अपराह्णेतनी ८७ । सायंचिरंप्रागेव्ययात् ॥ ६. ३.८८ ॥
योगविभागाद्वेति निवृत्तम्, सायंचिरंप्राप्रगे इत्येतेभ्योऽव्ययेभ्यश्च कालवाचिभ्यः शेषेऽर्थे तनट् प्रत्ययो नित्यं भवति । साये भवं सायन्तनम्, चिरे चिरन्तनम्, अत एव निर्देशान्मान्तत्वं निपात्यते । प्रातनम्, प्रगेतनम्, अनयोरेकारान्तत्वम् । अव्यय, दिवातनम्, दोषातनम्, नक्तंतनम्, पुनस्तनम्, प्रातस्तनम्, प्राक्तनत् । कालेभ्य इत्येव ? स्वर्भवं सौवम्, सायंचिरंप्रागे इत्यव्ययेभ्योऽव्ययादित्येव सिद्धे सायचिरप्राह प्रगशब्देभ्य स्तनविधानं कालेकण्बाधनार्थम् ।८८।
भर्तु संध्या देर ।। ६. ३. ८९ ॥
भं नक्षत्रं तद्वाचिभ्य ऋतुवाचिभ्यः संध्यादिभ्यश्च कालवाचिभ्यः शेषेऽर्थेऽण् प्रत्ययो भवति, इकणोऽपवादः । पुष्येण चन्द्रयुक्तेन युक्तः काल: पुष्यः । ' चन्द्रयुक्त ' - ( ६-२- ७ ) इत्यादिनाण् । तस्य लुप् पुष्ये भवः पौषः, एवं तैषः आश्विनः रौहिणः, सौवातः । ऋतु ग्रैष्मः शैशिरः, वासन्तः ऋतोणित् प्रत्ययस्तदवयवादेरपि भवति । पूर्वग्रैष्मः, अपरशैशिरः । 'अंशादृतो: ' ( ७-४ -१४ ) इत्युत्तरपदवृद्धिः । सन्ध्यादि, सान्ध्यः, सान्धिवेल:, आमावास्यः। एकदेशविकृतस्यानन्यत्वादमावस्याशब्दादपि भवति । आमावस्यः,