________________
[ पाद. ३. सू. ८१-८५] श्रीसिद्धहेमचन्द्र शब्दानुशासने षष्ठोध्यायः
[ १२३
विशेषवाचीति गृह्यत इति शेषः, मासाद्यपेक्षया कालशब्दोऽपि कालविशेषवाची तेन कालिक इत्यपि ।
यथाकथंचिदिति यथाकथंचित् गुणवृत्त्या मुख्यवृत्त्या वा ये काले वर्त्तन्ते इत्यर्थः । अकालादपीति-अकालशब्दश्च यदा कालमुपलक्षणीकृत्य काले वर्त्तते गुणवृत्त्यैव तदाकालशब्दात् कालर्थात् प्रत्ययो भवति यथादर्शितात् कदम्बपुष्पादेः ।
यो विधिरिति कालेभ्य इत्यंशेन यो विधिः स तस्माद् भवतीति ।
शरदः श्राद्धे कर्मणि ॥। ६. ३. ८१ ॥
शरच्छब्दात्कालवाचिनः श्राद्धे कर्मणि पितृकार्ये शेषेऽर्थे इण् प्रत्ययो भवति, ऋत्वणोऽपवादः । शारदिकं श्राद्धकर्म । कर्मणीति किम् ? शारदः श्राद्धः, श्रद्धावानित्यर्थः । श्राद्ध इति किम् ? शारदं विरेचनम् । ८१ ।
नवा रोगात ॥ ६. ३. ८२ ॥
शरच्छब्दात् कालवाचिनो रोगे आतपे च शेषेऽर्थे इकण प्रत्ययो भवति वा, ऋत्वणोऽपवादः । शारदिकः शारदो वा रोगः, शारदिकः शारद आतपः । रोगातप इति किम् ? शारदं दधि ॥ ८२ ॥
निशाप्रदोषात् ।। ६. ३. ८३ ॥
निशाप्रदोषशब्दाभ्यां कालवाचिभ्यां शेषेऽर्थे 'वर्षाकालेभ्यः' (६-३-७९) इति नित्यं प्राप्त इकंण् वा भवति । नैशिकः नैशः प्रादोषिकः प्रादोषः ॥ ८३ ॥ श्वसस्तादिः ॥ ६. ३. ८४ ॥
श्वस् इत्येतस्मात्कालवाचिनः शेषेऽर्थे इकण् प्रत्ययो वा भवति स च तादिः । शौवस्तिकः, पक्षे 'ऐषमोह्यःश्वसो वा' ( ६-३-१८) इति त्यच् । श्वस्त्यम् । तत्रापि वाग्रहणात् पक्षे ' सायम् ' - ( ६-३-८७ ) इत्यादिना तनट् । श्वस्तनम् १८४।
चिरपरुत्परा रेस्त्नः ॥। ६. ३. ८५ ।।
चिरपरुत्परारि इत्येतेभ्यः कालवाचिभ्यः शेषेऽर्थे त्नः प्रत्ययो भवति वा, चिरत्नं परुत्त्नं परारितम्, पक्षे ' सायम्' [ ६-३-८७ ] इत्यादिना तनट् । चिरंतनम्, परुत्तनम्, परारितनम्, परुत्परारिभ्यां विकल्पं नेच्छन्त्यभ्ये । परारेस्तु रिलोप इत्येके, परात्नः । केचित्तु परुत्परार्योस्तनटयन्त्यस्वरात्परं स्वागममिच्छन्ति । परुन्तनम्, परारितनम् ॥८५॥
न्या० स० चिर०-म्वागममिति मोरुदितकरणं 'तौ मुमौ ' १-३-१४ इत्यनुस्वरार्थं,
"
अन्यथा पदान्तत्वान्न स्यात्, 'नाम सिदय्' १-१-२१ इत्यनेनापि मस्य पदान्तत्वं