________________
१२२ ]
बृहवृत्ति-लघुन्याससंवृलिते [पाद. ३ मू० ७९-८० । वृद्धिः । अकस्मात् हेतुशून्यः कालः तत्र भवमाकस्मिकम् । अमुष्मिन्परलोके भवम् आमुष्मिकम्, एवमामुत्रिकम्, पारत्रिकम्, इह भवमोहिकम्, शैषिकम्पाठसामर्थ्यात्सप्तम्या अलुप् । अध्यात्मादयः प्रयोगगम्याः ।७८। .
न्या० स० अध्यात्मा०-आत्मनि इति विगृह्य 'अनः' ७-३-८८ इत्यत् समासान्तः ततः सप्तम्यर्थस्योक्तत्वात् सिप्रत्ययः, यद्वा स्याद्वादात् प्रकृतिभेदेन कारकभेदे सप्तम्यन्तादिकण् ।
__ आमुष्मिकमिति ननु 'नोपदस्य' ७-४-६१ इति कथमन्त्यस्वरादिलोपः, 'तदन्तं पदम्' १-१-२० इति पदत्वात्वान्न प्राप्नोति ! न, 'नाम सिदय्' १-१-२१ इति नियमात्पदत्वाभावः । एवमामुत्रिकमिति एवंशब्दः परलोकलक्षणं सादृश्यमवगमयति द्वयोः । समानपूर्वलोकोत्तरपदात् ॥ ६. ३. ७९ ॥
समानपूर्वपदेभ्यो लोकशब्दोत्तरपदेभ्यश्च शेषेऽर्थे इकण प्रत्ययो भवति । समान ग्रामे कृतो भवो वा सामानग्रामिकः, सामातदेशिकः, इह लोके कृतो भवो वा ऐहलौकिकः, पारलौकिकः, सार्वलौकिकः, योगद्वयेऽपि भवार्थ एव प्रत्यय इत्यन्ये ७९। वर्षाकालेभ्यः ॥ ६. ३.८० ॥
वर्षाशब्दात्कालविशेषवाचिभ्यश्च शेषेऽर्थे इकण प्रत्ययो भवति, अप्रपवादः दोरीयमपि परत्वाद्वाधते । वर्षाम् भवो वार्षिकः, ऋतोणित् प्रत्ययस्तदवयवादेऋत्वन्तादपि भवत्यभिधानात् । पूर्ववार्षिकः, अपरवार्षिकः। एवमुत्तरत्रापि। कालवाचि, मासिकः, आर्धमासिकः, सांवत्सरिकः, आह्निकः, देवसिकः, वर्षाग्रहमा मृत्वण्बाधनार्थम् । कालशब्दः काल विशेषवाची । 'भर्तुसंध्यादेरण' (६-३-८८) इत्यत्र संध्यादिग्रहणात् । स्वरूपग्रहणे हि काललक्षणेकण्बाधकं सध्यादिग्रहणमनर्थकं स्यात् । बहुवचनं तु यथाकथंचित् काल वृत्तिभ्यः प्रत्ययप्रापणार्थं, निशासहचरितमध्ययनं निशा प्रदोषसहचरितं प्रदोषः तत्र जयी नैशिकः प्रादोषिकः । कदम्बपुष्पसहचरितः कालः कदम्बपुष्पं व्रीहिपलालसहचरितः कालो व्रीहिपलालम् । तत्र देयमृणं कादम्बपुष्पिकं बेहिपलालिकम् । कालशब्दातु कालार्थादकालार्थाच्च कालतः, अकालादपि कालार्थात् 'कालेभ्यः' इति यो विधिः ।८।।
न्या० स० वर्षा०-पूर्ववार्षिक इति पूर्वाश्च ता वर्षाश्च 'पूर्वापाप्रथम' ३-१-१०३ इति समासः, पूर्वासु वर्षासु भव इति तद्धितविषये 'दिगधिकम् ' ३-१-९८ इत्यनेन वा, वर्षाणां पूर्वत्वमिति 'पूर्वापराध' ३-१-५२ इत्यादिना तत्पुरुषो वा 'भंशादृतोः' ७-४-११ इत्युत्तरपदवृद्धिः, विशेषविहितत्वात् परत्वाच्चानेन 'दिक्पूर्वात् ' ६-३-७१ इति बाध्यते ।