________________
[ पाद ३. सू. ७५-७८ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः
[ १२१
"
न्या० स० अमो० - यत्र प्रकृतिविशेषो नोपादीयते तत्र वाद्यात् ' ६-१-११ इति प्रवर्त्तते इत्यत्र प्रकृतिविशेषोपादनादम इत्यस्य प्रथमान्तनिर्देऽपि न प्रकृतिभावः ।
अन्तम इति अन्तशब्दात् भवादन्यत्रायं विधिः भवे तु दिगादिय एव, तथा अवोधः शब्दयोर्दिग्देशवृत्त्योरिह ग्रहणं, कालवृत्त्योस्तु परत्वात् ' सायंचिरम् ' ६-३-८८ इति तनडेव ।
6
अकारादीति अन्यथा आम इति कृते 'नाम सिदय्यव्यञ्जने' १-१-२१ इत्यनेन पदत्वात् प्रायो ऽव्ययस्य' ७-४ - ६५ इत्यन्त्यस्वरादिलोपो न स्यात्, 'नोऽपदस्य ' ७-४-६१. इत्यतोSपद इत्यनुवर्तनात् ।
पश्चादाद्यन्ताग्रादिमः | ६. ३. ७५ ॥
पश्चात् आदि अन्त अग्र इत्येतेभ्यः शेषेऽर्थे इमः प्रत्ययो भवति । पश्चिमः । अत्राव्ययत्वादन्त्यस्वरादिलोप: । आदिमः, अन्तिमः अग्रिमः । आद्यन्ताभ्यां भवादन्यत्रायं विधिः भवे तु परत्वाद्दिगादिय एव ॥७५॥
मध्यान्मः ।। ६. ३. ७६ ।।
मध्यशब्दाच्छेषेऽर्थे मः प्रत्ययो भवति । मध्यमः, भवे दिनणादिर्वक्ष्यते । ततोऽन्यत्रायं विधिः ॥७६ |
,
मध्य उत्कर्षापकर्षयोरः ।। ६. ३. ७७ ।।
उत्कर्षापकर्षयोर्मध्ये वर्तमानान्मध्यशब्दाच्छेषेऽर्थे अ इत्ययं प्रत्ययो भवति, मापवादः । नात्युत्कृष्टो नात्यपकृष्टो मध्यपरिमाणो मध्यो वैयाकरणः, मध्या गुणाः, मध्या स्त्री, नातिदीर्घं नातिह्रस्वं मध्यप्रमाणं मध्यं काष्ठम्, नातिस्थूलो नातिकृशो मध्यः कायः । यद्यपि मध्यशब्दो मध्यपरिणामवाचिन्यपि वर्तते तथाप्यवस्थावस्थावतोः स्याद्वादाद्भेदविवक्षायामवस्थावाचि प्रकृतेरवस्थावति प्रत्ययार्थे पूर्वेण मो माभूदिति वचनम् ॥७७॥
न्या० स० मध्य०–यद्यपीति नन्वाधाराधेययोरभेदविवक्षाया मध्यवर्तिकाष्टाद्यपि मध्यशब्देनोच्यते, तत् किमनेनेत्याशङ्का ।
अध्यात्मादिभ्य इकण् ॥ ६. ३. ७८ ॥
अध्यात्म इत्यादिभ्यः शेषेऽर्थे इकण् प्रत्ययो भवति । अध्यात्मं भवमाध्यात्मिकम्, एवमाधिदैविकम्, आधिभौतिकम्, अनुशतिकादित्वादनयोरुभयपदवृद्धिः । और्ध्वदमिकः, और्ध्वदेहिकः, और्ध्वदमिकः, और्ध्वदेहिकः, अत एव पाठादूर्ध्वशब्दस्य दमदेहयोर्वा मोऽन्तः । केचिदूर्ध्वदमोर्ध्वदेहावनुशतिकादिषु पठन्त उभयपदवृद्धिमिच्छति । और्ध्वदामिकः, और्ध्वदैहिकः, ऊर्ध्वमौहूर्तिकः, अत्र 'सप्तमी चोर्ध्व मौहूर्तिके' ( ५ -३ - १२ ) इति ज्ञापकादुत्तरपदस्यैव