________________
बृहद्वृत्ति - लघुन्यास संवलिते
११८ ]
गहादिभ्यः ॥। ६. ३. ६३ ॥
देशादिति वर्तते । तद्भहादीनां यथासंभवं विशेषणम् । गहादिभ्यो यथासंभवं देशवाचिभ्यः शेषेऽर्थे ईयः प्रत्ययो भवति, अणाद्यपवादः । गहीयः, अन्तस्थीयः। गह, अन्तस्थ, अन्तस्था, सम, विषम, उत्तम, अङ्गमगध, शुक्लपक्ष, पूर्वपक्ष, अपरपक्ष, कृष्णशकुन, अधमशाख, उत्तमशाख, समानशाख, एकशाख, समानग्राम, एकग्राम, एकवृक्ष, एकपलाश, इष्वग्र, दन्ताग्र, इष्वनीक, अवस्यन्द, कामप्रस्थ, सौप्रख्य, खाडायनि, काठेरणि, काठेरिणि, लावेराणि, लावेरिणि, लावीरणि, शौशिरि, शौङ्गि, शौङ्गिशैशरि, आसुरि, आहिंसी, आमित्र, व्याडि, भौङ्गि, भौजि, भौजि, आध्यश्वि, आश्वत्थि, औद्वाहमानि, औपविन्दवि, अग्निशमि, देवशम, श्रोति, बाटारकि, वाल्मीकि, क्षैमधृत्वि, उत्तर, अन्तर, मुखतस्, पार्श्वतस्, एकतस्, अनन्तर, आनृशंस, साटि, सौमित्रि, परपक्ष, स्वक, देवक, इति गहादयः । बहुवचनमाकृतिगणार्थम् । ६३ ।
[ पा० ३. सू० ६३ ]
न्या० स० गहादिं०-अथ गणः, गाह्यते घञ्, पृषोदरादित्वात् ह्रस्वत्वे गहः, अन्ते तिष्ठति अन्तस्थः, अन्तस्थाः, समति अच् समः, विगतः समात् विषमः, उत्ताम्यति बहूनां प्रकृष्ट उत्कृष्टो वा उत्तमो देशः अङ्गाश्च मगधाश्च अङ्गमगधाः, शुक्लश्चासौ पक्षश्च शुक्लपक्षः, एवं पूर्वपक्ष:, अपरपक्षः, कृष्ण शकुनः ।
अस्य
अधम उत्तमा समाना एका शाखा यस्य, समानश्चासौ ग्रामश्च समानग्रामः, देशवाचिन एवास्मिन् गणे पाठः, अन्यत्र ' समानपूर्व ६-३-८९ इति इकणू, एकश्चासौ ग्रामश्च वृक्षश्च पलाशश्च एकग्रामः एकवृक्ष:, एकपलाश:, इषुभिरग्रः प्रधानं इष्वग्रः, दन्तैरग्रः दन्ताग्रः, sy प्रधानान्यनीकानि यत्र इष्वनीकः, अवस्यन्दतेऽत्र अवस्यन्दः, कामेषु प्रतिष्ठते कामप्रस्थः, सुप्रचष्टे सुप्रख्यः सोत्रास्ति तस्य निवासो वा सौप्रख्यः, कठमीरयति, नन्द्यादित्वात् करणस्तस्यापत्यं काठेरणिः, ‘ऋदुहेकित' १९५ ( उणादि ) इरिणं कठस्य इरिणमिव उपरमिव कठेरिणस्तस्यापत्यं काठेरिणि:, लूयते लवः, लवमीरयति लवेरणस्तस्यापत्यं लावेरणि:, लवस्येरिणमिव वेरिणस्तस्यापत्यं लावेरिणि:, लवोऽस्यास्तीति लवी, लविनमीरयति लवीरणस्तस्यापत्यं लावीरणिः, शिशिरस्यापत्यं शैशिरः, शुङ्गत्यापत्यं शौङ्गिः, शुङ्गस्य शुङ्गाया वापत्यं ' शुङ्गाभ्यां भारद्वाजे' ६-१-६३ अणू शौचासौ शैशिरिच, असुरस्यापत्यं आसुरिः, बाह्वादित्वादि, न हिनस्ति, न विद्यते हिंसा यस्य वा अहिंसस्तस्यापत्यं आहिंसिः, न मित्रममित्रः, प्रसो वा तस्यापत्यं आमित्रिः, व्यडस्यापत्यं भोजस्य भूर्जस्य अध्यश्वस्य अश्वत्थस्य उद्गाहमानस्यापत्यं 'अत इञ्' ६-१-३१ उपविन्दोः अग्निशर्म्मणो देवशर्मणोऽपत्यं बाह्वादित्यादिञ्, श्रुतस्यापत्यं श्रौतिः वटारं कायति तस्यापत्यं वल्मीकस्यापत्यं अत इज् ' ६-१-३१, क्षेमं धृतवान् क्षेमधृत्वा तस्यापत्यं बाह्वादित्वादिञ् क्षैमधृत्विः, उत्तरति उत्तरः, 'अनिकाभ्यां तरः' ४३७ ( उणादि ) इति अन्तं राति वा अन्तरः, एकं तस्यति क्विप् एकताः, न अन्तरः अनन्तरः, नृन् शंसति नृशंसः, न नृशंसः अनृशंसस्तस्यापत्यं भानृशंसिः, षट् अवयवे, सटति सटस्तस्यापत्यं साटिः, सुमित्राया अपत्यं सौमित्रिः, बाह्वादित्वादिञ् परस्य पक्ष परपक्षः इति ग्रहादिगणः ।
6
6