________________
[ पाद. ३. सू. ६४-६७ | श्रीसिद्धहेमचन्द्र शब्दानुशासने षष्ठोध्यायः
पृथिवी मध्यान्मध्यमश्चास्य ।। ६. ३. ६४ ॥
पृथिवीमध्यशब्दा देशवाचिनः शेषेऽर्थे इयः प्रत्ययो भवति मध्यमादेशश्वास्य पृथिवीमध्यशब्दस्य भवति । पृथिवीमध्ये जातो भवो वा मध्यमीयः ॥ ६४ ॥ निवासाच्चरणेऽण् ॥ ६. ३.६५ ॥
पृथिवी मध्यान्निवासभूता देशवाचिनश्चरणे निवस्तरि शेषेऽर्थेऽण् प्रत्ययो भवति मध्यमादेशश्चास्य पृथिवी मध्यशब्दस्य । पृथिवीमध्यं निवास एषां चरणानां माध्यमाश्चरणाः, त्रयः प्राच्याः त्रयः उदीच्याः त्रयो माध्यमाः । निवासादिति किम् ? पृथिवीमध्यादागतो मध्यमीयः कठः । चरण इति किम् ? पृथिवीमध्यं निवासोऽस्य मध्यमीयः शूद्रः । ६५ ।
[ ११९
न्या० स० निवा० – नन्वण्ग्रहणं किमर्थं यतो यो हि अन्येन बाधितो न प्राप्नोति तदर्थमिदं स चाणेव ?
सत्यं, निवासाच्चरण इति कृते पूर्वसूत्रेणैव सिद्धे नियमार्थ स्यात् पृथिवीमध्यान्निवासभूतदेशवाचिनश्चरणे एव निवस्तरि नान्यत्र ततश्च मध्यमीयाश्चरणा माध्यमः शूद्र इति वैपरीत्यं स्यादतस्तन्मा भूदित्यण् ग्रहणम् ।
वेणुकादिभ्य ईयण् ॥ ६. ३. ६६ ॥
वेणुक इत्येवमादिभ्यो यथायोगं देशवाचिभ्यः शेषेऽर्थे ईयण् प्रत्ययो भवति । वैणुकीयः, वैत्रकीय:, औत्तरपदीयः, औत्तरीयः, औत्तरकीयः, प्रास्थीयः, प्रास्थकीयः, माध्यमकीयः, माध्यमिकीयः, नैपुणकीयः, बहुवचनं प्रयोगानुसरणार्थम् ।६६।
न्या० स० वेणु० - वेणवः सन्त्यत्र उत्तराण्यत्र सन्ति, 'ऋश्यादेः कः ' ६-२-९४ प्रस्मस्य तुल्यः, मध्यम एव, मध्यममस्यास्ति
6
अतोऽनेक ' ७-२-६ इतीकः, अल्पा निपुणः, 'कुत्सिताल्पे ७-३-३३ इति कप्, तत्र भवः ।
वा युष्मदस्मदोऽञीनत्र युष्माकास्माको चास्यैकत्वे तु
तवकममकम् ।। ६. ३. ६७ ॥
देशादिति निवृत्तम्, युष्मद् अस्मद् इत्येताभ्यां शेषेऽर्थे अञ् ईनञ् इत्येतौ प्रत्ययो वा भवतः तत्संनियोगे च यथासंख्यं युष्मदस्मदोर्युष्माकास्माकी, एकत्वविशिष्टे त्वर्थे वर्तमानयोस्तवकममकावादेशौ भवतः, प्रत्ययौ प्रति यथासंख्यं नास्ति वचनभेदात् । युष्माकमयं युवयोर्वा यौष्माकः । योष्माकीणः, अस्माकमयमावयोर्वा आस्माकः आस्माकीनः, पक्षे त्यदादित्वेन दुसंज्ञकत्वादीयः ।