________________
[ पाद. ३ सू. ५९-६२ ] श्री सिद्धहेमचन्द्र शब्दानुशासने षष्ठोध्यायः
[ ११७
कखोपान्त्यकन्था पलदनगरग्रा महदोत्तरपदाद्दोः ॥ ६. ३. ५९ ॥
ककारखकारोपान्त्यात्कन्थापलदनगरग्रामहूद इत्येतदुत्तरपदाच्च देशवाचिनो दुसंज्ञकात् शेषेऽर्थे ईयः प्रत्ययो भवति । बाधकबाधनार्थ आरम्भः, कोपान्त्यात् कोपान्त्यलक्षणेऽणि प्राप्ते । आरोहणकीयः, द्रौघणकीयः, आश्वस्थिकीयः, शाल्मलिकीयः, सौषुकीयः, आष्टकीयः, ब्राह्मणकीयः, बालकीयः । खोपान्त्यात् वाहीकग्रामलक्षणयोणिकेकणोः, कौटशिखीयः, माटिशिखीयः, अयोमुखीयः । कन्थापलदोत्तरपदात्तयोरेव । दाक्षिकन्थीयः, माहकिकन्थीयः, दाक्षिपलदीयः, माहकिपलदीयः । नगरोत्तरपदाद्रोपान्त्यलक्षणेऽकञि, दाक्षिनगरीयः, माहकिनगरीयः । ग्रामहदोत्तरपदात् णिके कणोरेव । दाक्षिग्रामीयः माहकिग्रामीयः, दाक्षिहदीयः, माहकि ह्रदीयः । दोरिति किम् ? आषिकः, माडनगरः ॥५९॥ न्या० स० कखो०- बाधकबाधनार्थ इति ' दोरीयः १ ६-३-३२ इति ईयस्य ये बाधकाः कोपान्त्याच्चेत्येवमादयस्तेषां बाधनं बाधस्तदर्थोऽयमारभ्या इत्यर्थः, एतदेव कोपान्त्यादित्यादिना स्पष्टयन्नुदाहरति ।
आष्टी इति 'इर्ष्याश' ७७ ( उणादि ) इति तक कि साध्यः अष्टौ कायति वा, अष्टावध्याया मानमस्येति वा पश्चात् ' तदत्रास्ति' ६-२-७० इत्यण् हातग्रहणादेव केवलस्य निवृत्तौ दुत्वाच्च गर्वोत्तरपदवद् बहुपूर्व निवृत्त्यर्थमित्याशङ्कायाअभावे उत्तरपदग्रहणं कन्थाद्यन्तोत्तरपदाग्रहणार्थं, ' प्रस्थपुखहान्त' ६-३-४३ इत्यत्र त्वन्तग्रहणात् प्रस्थाद्यन्तोत्तरपदग्रहस्यापीष्टत्वात् ।
पर्वतात् ।। ६. ३. ६० ॥
पर्वतशब्दाद्द देशवाचिनः शेषेऽर्थे ईयः प्रत्ययो भवति, अणोऽपवादः । पर्वतीयो राजा । पर्वतीयः पुमान् । ६० ।
अनरे वा ॥ ६. ३.६१ ॥
पर्वताद्दशवाचिनो नरवर्जिते शेषेऽर्थे ईयः प्रत्ययो भवति वा । पर्वतीयानि पार्वतानि फलानि, पर्वतीयं पार्वतमुदकम् । अनर इति किम् ? पर्वतीयो मनुष्यः । ६१।
पर्णकृकणाद्भारद्वाजात् ॥ ६. ३. ६२ ॥
पर्णकृकण इत्येताभ्यां भारद्वाजदेशवाचिभ्यां शेषेऽर्थे ईयः प्रत्ययो भवति, अणोऽपवादः । पर्णीयः । कृकणीयः । भारद्वाजादिति किम् ? पार्णः, कार्कणः ॥६२॥