________________
११६ ]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ३ सू. ५६-५८ ] कुत्सिता लूता यत्र कुलूतः, 'कैशीशमि' ७४९ ( उणादि) इति रछकुः, गन्धानियर्ति गन्धारः,. साल्वाया अपत्यं साल्वेयः, युधाया अपत्यं यौधेयः, सह स्थालेन वर्तते सस्थालः ।
सिन्धुशब्दोऽन्ते यस्य सिध्वन्तः, सिन्धु शब्दान्तो गृह्यते, न तु सिन्धोरन्त इति कृत्वा सिध्वन्त इत्यखण्डः, तदा हि 'हृद्भगसिन्धोः' इत्यत्र साक्तुसैन्धवः पानसैन्धव इत्यादिषु कच्छादौ तदन्तविधेरपीष्टत्वात् इति यदुक्तं तदुपपन्नस्यात् । पूर्वोक्तमेवेति उत्तरेण त्वणा बाधा माभूदित्येवरूपम् । कोपान्त्याचाण ॥ ६. ३. ५६ ॥
देशादित्येव वर्तते न ननृस्थे इति । कोपान्त्यात्कच्छादेश्च देशवाचिनः शेषेऽर्थेऽण् प्रत्ययो भवति, इकणकोरपवादः । कोपान्त्यः, ऋषिका जनपदः तेषु जातः आर्षिकः। महिकेषु माहिषकः, अश्मकेषु आश्मकः, इक्ष्वाकुषु ऐक्ष्वाकः, कच्छादि, काच्छः, सैन्धवः, वार्णवः । अथाणग्रहणं किमर्थम् यो हि अन्येन बाधितो न प्राप्नोति तदर्थमिदं स्यात् स चाणेव, न चानन्तरोऽकव स्यादित्याशङ्कनीयम् । एवं हि पूर्वकमकविधानम् अनर्थकं स्यात् ? नैवम्, असत्यण्ग्रहणे इक्ष्वाकोरुवर्णलक्षण इकण् स्यात् स हि ततो राष्ट्राका बाधितः ।५६।
न्या० स० कोपा०-इकणकनोरिति ‘उवर्णादिक' ६-३-३९ 'बहुविषयेभ्यः' ६-३-४५ इत्यनयोः । अन्येन बाधित इति 'प्राजितात् ६-१-१३ इति प्राप्तोऽन्येनाकयादिना बाधित
इत्यर्थः ।
अनर्थकं स्यादिति यदि हि नृनृस्थे अन्यत्र वाकोव स्यात् तदा किं पूर्वसूत्रेण, अनेनैव कच्छादिकोपान्त्याच्च इत्येवंरूपेण सिद्धत्वात् । इकण् स्यादिति यत इक्ष्वाकोरिकणप्यनेनाका बाध्यमानो विद्यते एव ततश्च सोप्यनेन स्यादिति ।
गर्वोत्तरपदादीयः ॥ ६. ३. ५७ ।। ___ गर्नोत्तरपदाद्देशवाचिनः शेषेऽर्थे ईयः प्रत्ययो भवति, अणोऽपवादः । श्वादिदर्तात्तु वाहीकग्रामलक्षणौ णिकेकणी परत्वाद्वाधते । श्वाविद् भवः श्वाविद्यः , वृकगीयः शृगालगर्तीयः, राहिदीयः । आभिसारगर्तकः त्रैगर्तकः इत्यत्राकञ् 'राष्ट्रेभ्यः' (६-३-४३ ) इति बहुविषयेभ्य इति बहुवचनसामर्थ्यात् भवतीत्युक्तम् । उत्तरपदग्रहणं बहुप्रत्ययपूर्वनिरासार्थम्, बाहुगतः ।५७। कटपूर्वापाचः ॥ ६. ३. ५८ ॥
कटपूर्वपदात्प्राग्देशवाचिनो नाम्नः शेषेऽर्थे ईयः प्रत्ययो भवति, अणोऽपवादः। कटनगरीयः, कटग्रामीयः, कटघोषीयः, कटवर्तकीयः, कटपल्वलीयः। प्राच इति किम् ? काटनगरः ।५८।