________________
। पाद. ३. सू. ५५] श्रीसिद्धहेमचन्द्रशब्दानुशासने पष्ठोध्यायः [११५ ग्रहणम् । एवं च गोयवाग्वोः पत्तिवजिते च मनुष्ये मनुष्यस्थे च हसितादौ साल्वकः अन्यत्र साल्व इति स्थितम्, अयं च विभागः सत्वशब्दस्यादोरपि विज्ञेयः ॥५४॥
न्या० स० साल्वा०-नियमार्थमिति नरि साल्वशब्दात् यद्यकञ् भवति, तदा अपत्तावेव न पत्तौ, मनुष्यस्थे चेति ननु गोयवाग्वपत्तावित्युच्यमाने मनुष्यस्थः कथं न लभ्यते, नहि मनुष्यस्थः प्रहासादिर्गीयवागूरपत्तिर्वा भवति, न च पत्तेरन्यमात्रमपत्ति, अपि तु मनुष्योऽन्यथा व्रीहय इत्यत्राप्यक प्राप्नोति, तथा च गोयवागूग्रहणमनर्थकं स्यात्तत्राप्यपत्तावित्येव सिद्धेः ? उच्यते, अपत्ति ग्रहणं 'कच्छादेर्नूनृस्थे' ६-३-५५ इत्यकत्रि सिद्ध पत्तेावृत्त्यर्थं क्रियते न तु विध्यर्थ, तेन यथा अपत्तौ मनुष्ये भवति तथा मनुष्यस्थेऽपि, ततः प्रत्ययस्याव्यावर्तितत्वात् । सल्यशब्दस्येति उपलक्षणत्वादेकदेशविकृतस्यानन्यत्वाद् वा ।
कच्छादे नृस्थे ।। ६. ३. ५५ ॥
कच्छादिभ्यो देशवाचिभ्यो नरि मनुष्ये नृस्थे मनुष्यस्थे च शेषेऽर्थेऽकञ् प्रत्ययो भवति, अणोऽपवादः । काच्छको मनुष्यः, काच्छकमस्य हसितम्, स्मितं जल्पितम् ईक्षितम्, काच्छिका चूला, सैन्धवको मनुष्यः, सैन्धवकमस्य हसितम्, सैन्धविका चूला । नृनृस्थ इति किम् ? काच्छो गौः, सैन्धवं लवणम्, कच्छ, सिन्ध, वर्ण, मधुमत्, कम्बोज, साल्व, कुरु, अनुषण्ड, अनूषण्ड, कश्मीर, विजापक, द्वीप, अनूप, अजवाह, कुलूत, रङ्ग, (कु) गन्धार, साल्वेय, यौधेय, सस्थाल, सिन्ध्वन्त इति कच्छादिः। कच्छादयो ये बहुविषया राष्ट्रशब्दास्तेभ्यो 'बहुविषयेभ्यः' (६-३-४४) इत्यक सिद्ध एव । उत्तरेण त्वणा बाधा माभूदिति पुनविधीयते । वर्णसिन्धुभ्याम् ' उवर्णादिकण्' (६-३-३८) इतीकणि तदपवादे कच्छाद्यणि, कुरोः 'कुरुयुगन्धराद्वा' (६-३-५२) इति विकल्पे, विजापकस्य कोपान्त्यलक्षणेऽणि, कच्छस्यौ
सर्गिकाणि प्राप्तेऽकविधिःः, अपरे कच्छमपि बहुविषयं राष्ट्रशब्दमाहुस्तदा पूर्वोक्तमेव पाठफलम् ।५५।।
न्या०' स० कच्छा०-अणोपवाद इति 'कोपान्त्याच्चाण' ६-३-५६ इति सामान्येन प्राप्तस्य, अथ कच्छादिगणो विव्रियते-तुदिमदि' १२४ ( उणादि) इति कच्छः, 'स्यन्दि सृजिभ्याम् ' ७१७ ( उणादि) इति सिन्धुः । __ 'अजिस्था' ७६० (उणादि ) इति वर्णः, मधु अस्यास्ति मधुमत् , - 'सलेर्णिद्वा' ५१० ( उणादि ) साल्वः ‘कृगृ' ४४१ ( उणादि ) इति कुरुः, अनुरूपा षण्डा यत्र अनुषण्डः, बाहुलकाद्दीर्घत्वे अनूषण्डः, "कशेर्मोऽन्तश्च' ४२० ( उणादि ) कश्मीराः, विजापयन्ति विजापकाः, द्विधा गता अनुगता आपो यत्र द्वीपः, अनूपः, अजान्वहति अजवाहः,