________________
११४ ]
बृहद्वृत्ति-लघुन्याससंलिते [पाद. ३ सू० ५१-५४ ] भवति, ईयाणोरपवादः । भारुकच्छे भवो भारुकच्छकः, पिष्पलीयकच्छे. पैष्पलीयकच्छकः, अग्नि, काण्डाग्नौ काण्डाग्नकः, विभुजाग्नौ वैभुजाग्नकः, वक्त्र, ऐन्दुवक्त्रे भवः ऐन्दुवक्त्रकः, तिन्दुवक्त्रे तैन्दुवक्त्रकः, वर्त, बाहुवर्ते बाहुवर्तकः, चक्रवर्ते चाक्रवर्तकः । उत्तरपदग्रहणमबहुप्रत्ययपूर्वार्थम्, ईषदसमाप्तः कच्छो बहुकच्छो देशः ततोऽकञ् न भवति ।५०। ___न्या० स० कच्छा०-ईयाणोरपवाद इति यत्र पूर्वपदस्य दुसंज्ञा तत्रेयस्यान्यत्र त्वणः, अत्र प्रथमप्रयोगे ईयस्य द्वितीये त्वणः प्राप्तिः । अरण्यात्पथिन्यायाध्यायेभनरविहारे ॥ ६. ३. ५१ ॥
अरण्यशब्दाद्देशवाचिनः पथ्यादिषु वाच्येषु शेषेऽर्थेऽकञ् प्रत्ययो भवति । आरण्यकः पन्थाः न्यायोऽध्यायः इभो नरो विहारो वा। पथ्यादाविति किम् ? आरण्याः सुमनसः, आरण्याः पशवः ॥५१॥ गोमये वा ॥ ६. ३. ५२ ॥
अरण्यशब्दाद्देशवाचिन: शेषेऽर्थे गोमये वाच्येऽकञ् प्रत्ययो भवति । आरण्यका गोमयाः, आरण्यानि गोमयानि । केचित्तु हस्तिन्यामपि विकल्पमिच्छन्ति, आरण्या आरण्यका हस्तिनी। एके तु नरवज पूर्वसूत्रेऽपि विकल्पमाहुः, आरण्यः आरण्यकः पन्था इत्यादि ।५२। कुरुयुगन्धरादा ॥ ६. ३. ५३ ॥
कुरुयुगन्धरशब्दाभ्यां देशवाचिभ्यां शेषेऽर्थेऽकञ् प्रत्ययो वा भवति । कुरुषु भवः कौरवकः कौरवः, युगन्धरेषु भवः यौगन्धरकः, यौगन्धरः, राष्ट्रशब्दावेतौ बहुविषयो च तत्र युगन्धरात् 'बहुविषयेभ्यः (६-३-४४) इति नित्यमकजि प्राप्ते विकल्पः । कुरोस्त्वकञः कच्छाद्यणा बाधितस्य प्रतिप्रसवार्थं वचनम् । तथा च विकल्पः सिद्ध एव । युगन्धरार्थात्तु विभाषा । ननस्थयोस्तु करोः परत्वादकत्रेव । कौरवको मनुष्यः कौरवकमस्य हसितम्।५३। साल्वादोयवाग्वपत्तौ ॥ ६. ३. ५४ ॥
साल्वशब्दाद्देशवाचिनो गवि यवाग्वां पत्तिजिते च मनुष्ये शेषेऽर्थेऽकञ् प्रत्ययो भवति । साल्वको गौः, साल्विका यवागूः, साल्वको मनुष्यः । गोयवाग्वपत्ताविति किम् ? साल्वा व्रीहयः, साल्वः पत्तिः। राष्ट्रेभ्योऽकत्रि कच्छाद्यणा बाधिते गोयवागूग्रहणं प्रतिप्रसवार्थम् अपत्तीति पत्तिप्रतिषेधात तत्सदशे मनुष्ये विधिः, तत्र चोत्तरेण सिद्ध एवाकनि नरि नियमार्थमपत्ति