________________
[ पाद ३. सू. २३-२५] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [ १०५ माणिरूप्ये जातो माणिरूप्यक इत्यत्र तु दुसंज्ञकत्वेन परत्वात् 'प्रस्थपुर'(६-३-४२) इत्यादिना ज्योपान्त्यलक्षणोऽकडेव भवति । अन्तग्रहणेनैव सिद्धे उत्तरपदग्रहणं बहुप्रत्ययपूर्वनिवृत्त्यर्थम् । बाहुरूप्यो ।२२॥ दिक्पूर्वादनाम्नः ॥ ६. ३. २३ ॥
दिकपूर्वपदादनाम्नोऽसंज्ञाविषयाच्छेषेऽर्थे णः प्रत्ययो भवति, अणोऽपवादः । पौवंशालः, पौवंशाला, आपरशालः, आपरशाला। अनाम्न इति किम् ? पूर्वेषुकामशमी नामः ग्राम, तस्यां भवः पूर्वेषुकामशमः, एवमपरैषुकामशमः, पूर्वकार्णमृत्तिका, अपरकाष्र्णमृत्तिका । 'प्राग्ग्रामाणाम्' (७-४-१७) इत्युत्तरपदवृद्धिः ।२३।
न्या० स० दिक्पू० -पौर्वशाला इति यदा पूर्वशब्दो देशकालवाची तदा पूर्वशालायां भवाणि पौर्वशालीति भवति, यदा तु पूर्वशब्दो दिक्शब्दस्तदा पूर्वस्यां शालायां भवस्तद्धितविषये 'दिगधिकम् ' २-१-९८ इति तत्पुरुषकर्मधारयौ द्विगुस्तु संख्यापूर्वपदत्वाभावात तदाऽनेन णः ।
मद्रा ॥ ६. ३. २४॥
. मद्रान्तादिक्पूर्वपदाच्छेषेर्थेऽञ् प्रत्ययो भवति । पूर्वेषु मद्रेषु भवः पौर्वमद्रः, पौर्वमद्री, 'बहुविषयेभ्यः' (६-३-४४) इत्यकञ् प्राप्तस्तदपवादे 'वृजिमद्राद्देशात्कः' (६-३-३७) इति के प्राप्तेऽञ्वचनम् । केवलादेव मद्रादकञ्कविधिरिति चेत् तीदमेव ज्ञापकं सुसधिदिक्शब्देभ्यो जनपदस्योति तदन्तविधेः । तेन सुपाञ्चालकः, सर्वपाञ्चालकः, अर्धपाञ्चालकः, पूर्वपाञ्चालकः, अपरपाञ्चालकः, सुमागधकः, सर्वमागधकः, सुवृजिकः, सुमद्रकः इत्यादि सिद्धम् ।२४।
न्या० स० मद्रा०-ननु अधिकारायातो ण एव भविष्यति किमकरणेन ? सत्यं, णाधिकारे अवचनं यर्थ, तथापि न कर्तव्यं मद्रादित्येव कृते यथाविहितः प्रागूजितादणेव भविष्यति, न तु णः, कुनः दिक्पूर्वान्मद्राच्चानाम्न इत्येकयोगाकरणात् ? सत्यं, मद्रादित्येव सिद्धौ यो हि येन बाधितो न प्राप्नोति तदर्थमिदं स्यादिति कबाधिताकवर्थ स्यात् , स माभूदित्येवमर्थ, उत्तरार्थ चेति शकटः ।
उदग्ग्रामाद्यकल्लोम्नः ॥ ६. ३. २५॥ . उदग्ग्रामवाचिनो यकृल्लोमन्शब्दाच्छेषेऽर्थेऽञ् प्रत्ययो भवति । याकृल्लोमः । उदग्ग्रामादिति किम् । अन्यस्मादणेव । याकृल्लोमनः । यकृल्लोम्न इति किम् ? प्रेक्षिणि भवः प्रैक्षिणः, कोष्टिन्यां भवः कौष्टिनः ।२५।