________________
१०६ ] - बृहद्वृत्ति-लघुन्याससंवलिते [पा० ३. सू० २६-२९ ] गौष्टीकोनैकेतीगोमतीशूरसेनवाहीकरोमकपटच्चरात् ॥ ६. ३. २६ ॥ ___गौष्टयादिभ्यः शेषेऽर्थेऽञ् प्रत्ययो भवति गौष्टः, तैकः, नैकेतः, एभ्यो वाहीकग्रामलक्षणयोणिकेकणोस्तैक्याः कोपान्त्यलक्षणस्येयस्य चापवादः । गौमतः, अस्मिन्नोल्लक्षणस्याकञः । शौरसेनः, अत्र राष्ट्राकञः। वाहोकः, रोमकः । अत्र दुलक्षणस्येयस्य । पाटच्चरः, अत्र रोपान्त्यलक्षणस्याकञः। एके तु गौष्ठीस्थाने गोष्ठी तैकीस्थाने तैकी नैवीं च पठन्ति ।२६।
न्या० स० गोष्ठी-अत्र दुलक्षणेति वाहीकशब्दस्य पुरुषवाचिनो 'दोरीयः' ६-३-३२ इत्यस्य देशवाचिनस्तु 'कखोपान्त्ये'६-३-५९ इत्यस्याप्यपवादः तदुभयमपि दुलक्षणस्येत्यनेन श्लिष्टनिर्देशेन संगृहीतं, यत उभाभ्यामपि दुसंज्ञायां विधानात् , रोमकस्य तु 'कखोपान्त्ये' ६-३-५९ इत्यस्यैव, यतस्तस्य पुरुषवाचिनो दुसंज्ञा न प्राप्नोति, देशवाचिनस्तु 'प्रागदेशे' ६-१-१० इति दुसंज्ञा । शकलादेयंत्रः ॥ ६. ३. २७ ॥
शकलादिभ्यो यन्तेभ्यः शेषेऽर्थेऽञ् प्रत्ययो भवति । ईयस्यापवादः । गर्गाद्यन्तर्गणः शकलादिः । शकलस्यापत्यं वृद्धं शाकल्यः। तस्य छात्राः शाकलाः । एवं काष्ठाः । गौकक्षाः । वामरथाः। यत्र इति किम् । शकलो देवतास्य शाकलः, तस्येदं शाकलीयम् । कण्ठादागतः काण्ठः तस्य छात्राः काण्ठीयाः ।२७। वृद्धत्रः ॥ ६. ३. २८ ॥
वद्धे य इञ् विहितस्तदन्ताच्छेषेऽर्थेञ् प्रत्ययो भवति, ईयस्यापवादः । दक्षस्यापत्यं वृद्ध दाक्षिस्तस्य छात्राः दाक्षाः, प्लाक्षाः । वृद्धेति किम ? सुतंगमेन निर्वृत्ता सौतंगमी नगरी तस्यां भवः सौतंगमीयः । शालङ्करपत्यं युवा शालङ्किः , 'यनिञः' (६-१-५४) इत्यायनणः पैलादिपाठाललुप् । तस्य छात्राः शालङ्का इत्यत्र तु आयनणि लुप्ते यद्यपीअन्तं यूनि वर्तते तथापी वृद्ध इत्यत्रेव भवति ।२८। ___ न्या. स. वृद्धत्रः-यूनि वर्त्तत इति 'वृद्धानि' ६-१-३० इत्यत्र यूनोऽपि वृद्धसंज्ञाकार्यदर्शनादत्र इअन्तस्य वृद्धेऽपि वर्तनमित्याश्रयणे औपगवस्यापत्यं युवा, औपगविस्तस्य छात्रा औपगवीयाः एवं पाणनीया इत्यादावपि स्यात् , अतो मुख्यत्वावृद्ध एवेति व्याख्येयम् । न द्विस्वरात् प्रागभरतात् ॥ ६. ३. २९ ॥ प्राच्यगोत्रवाचिनो भरतगोत्रवाचिनश्च नाम्नो वृद्धजन्ताद्विस्वरादञ्