________________
बृहद्वृत्ति-लघुन्याससंवलिते
क्वेहामात्रतसस्त्यच् ॥ ६. ३. १६ ॥
7
क इह अमा इत्येतेभ्यस्त्रतस् प्रत्यान्तेभ्यश्च शेषेऽर्थे त्यच् प्रत्ययो भवति । कत्यः, इहत्यः, अमात्यः, तत्रत्यः, यत्रत्यः, ततस्त्यः, यतस्त्यः, कुतस्त्यः । आविश्शब्दादपि कश्चित् । आविष्टयः चकारस्त्यण्त्यचो: सामान्यग्रहणाविघातार्थः ।१६।
१०४ ]
[ पाद- ३ सू० १६-२२ ]
न्या० स० क्वेहा० – अत्र तसितस् सानुबन्धित्वान्न गृह्येते कौश्चित्प्रातस्त्यप् इति सूत्रं व्यवधायि, तेन प्रातस्त्य इत्यपि सिद्धं, स्वमते तु 'क्वेह ' ६-३ - १६ इत्याद्यव्ययोपलक्षणं, तेन यथार्थ दर्शनमन्येषामपि अव्ययानां भवति ।
सामान्यग्रहणेति अन्यथा स्वज्ञाजभख १ २ ४ १०८ इत्यादौ त्यग्रहणे निरनुबन्धत्वादस्यैव ग्रहः स्यात् ।
नेवे
।। ६. ३. १७ ।।
निशब्दात् ध्रुवेऽर्थे त्यच् प्रत्ययो भवति । नित्यं ध्रुवम् ॥१७॥ निसो गते ॥ ६. ३. १८॥
निस्शब्दाद्वतेऽर्थे त्वच् प्रत्ययो भवति । निर्गतो वर्णाश्रामेभ्यो निष्ट्य
चण्डालः | १८|
ऐषमोह्यःश्वसो वा ।। ६. ३. १९ ।।
ऐषमस्, ह्यस्, श्वस् इत्येतेभ्यः शेषेर्थे त्वच् प्रत्ययो वा भवति । ऐषमस्त्यम्, ऐषमस्तनम्, ह्यस्त्यम्, ह्यस्तनम्, श्वस्त्यम्, श्वस्तनम् । 'श्वसस्तादि: ' ( ६- ३ - ८३ ) इति इकणपि भवति । शौवस्तिकम् ।१९।
कन्याया इकण् ।। ६. ३. २० ।।
कन्था ग्रामविशेषः, कन्थाशब्दात् शेषेऽर्थे इकण् प्रत्ययो भवति । कान्थिकः ।२०।
वर्णावकञ् ।। ६. ३. २१ ॥
वर्णुर्नाम हृदः । तस्य समीपो देशोऽपि वर्णुः तत्र या कन्था ततः शेषेऽर्थेऽकञ् प्रत्ययो भवति । इकणोऽपवादः । कान्थकः ॥ २१ ॥
रूप्योत्तरपदारण्याण्णः ।। ६. ३. २२ ।।
रूप्योत्तरपदादरण्यशब्दाच्च शेषेऽर्थे णः प्रत्ययो भवति । वार्करूप्यः वार्करूप्या । शैविरूप्यम्, शैवरूप्यम्, आरण्याः सुमनसः, आरण्याः पशवः ।