________________
[पाद. ३. सू. १२-१५] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः [ १०३ कुलकुक्षिग्रीवाच्छ्वास्यलङ्कारे ॥ ६. ३. १२ ॥
कुलकुक्षिग्रीवा इत्येतेभ्यो यथासंख्यं श्वास्यलकारविशिष्टे प्राग्जितीये शेषेऽर्थे एयकञ् प्रत्ययो भवति, अणोऽपवादः । कुले शुद्धान्वये भवो जातो वा कौलेयकः श्वा, कोलोऽन्यः । कौक्षेयकोऽसिः, यः कङ्ककुक्षिनिजीणेनायसा कृतः। कौक्षोऽन्यः, ग्रैवेयकोऽलंकारः, ग्रैवोऽन्यः ।१२।। ____ न्या० स० कुल०-कुक्षौ ग्रीवायां जातः भवे तु 'दृतिकुक्षि' ६-३-१३० इति ग्रीवातोऽणू च' ६-३-१३२ (इति) स्यात् । दक्षिणापश्चात्पुरसस्त्यः ॥ ६. ३. १३ ॥
एभ्यः शेषेऽर्थे त्यण् प्रत्ययो भवति, अणोपवादः । दक्षिणा दिक् तस्यां भवो दाक्षिणात्यः अथवा दक्षिणस्यां दिशि वसति वा दक्षिणात्प्रथमासप्तम्या आ' (७-२-११९) इत्याप्रत्यये दक्षिणा तत्र भवो दाक्षिणात्यः पाश्चात्यः, पौरस्त्यः, पश्चात्पुरःशब्दसाहचर्यादक्षिणा इति दिकशब्दोऽव्ययं वा गृह्यते, तेनेह न भवति, दक्षिणायां भवानि दाक्षिणानि जुहोति । अत्र दक्षिणाशब्दो गवादिवचन:, अव्ययादेवेच्छन्त्येके ।१३।।
न्या० स० दक्षि०-दाक्षिणात्य इति 'कौण्डिन्यागस्तयोः' ६-१-१२७ इति कौण्डिन्यनिर्देशात् पुंभावोऽनित्यः, तेन 'सर्वादयोऽस्यादौ' ३-२-६१ ( इति ) न, यदा त्वाप्रत्ययस्तदा अव्ययत्वात् डेलुपि दक्षिणाभवः पुंभावोऽपि न असर्वादित्वात् ।
पाश्चात्य इति अपरा दिक देशो वा रमणीयः, 'अधरापराच्चात् ' ७-२-११८ पूर्वा पूर्वो वा दिक देशो वा रमणीयः, 'पूर्वावराधरेभ्य' ७-२-११५ इत्यस् , पश्चाद्भवः पुरोभवः । वहल्यर्दिपर्दिकापिश्याष्टायनण ॥ ६. ३. १४ ॥
वह्नि अदि पदि कापिशी इत्येतेभ्यः शेषेऽर्थे टायनण प्रत्ययो भवति । वाह्लायनः, बाह्लायनी, औयिनः, और्दायनी, पायनः, पायनी । कापिशायनं मधु, कापिशायनी द्राक्षा, वल्हीति ऊष्मोपान्त्यः । केचिदत्र वकारं दीर्घान्तं पठन्ति ।१४। ___ न्या० स० वहल्य-वल्हिः देशविशेषः, ऊर्दिः क्रीडा, पर्दिः पर्दनक्रीडा, कपिशा मर्कटा अत्र सन्ति, तदत्रास्ति कापिशी अटवी । रकोः प्राणिनि वा ॥ ६. ३. १५॥
रङ्कुशब्दात्प्राणिविशिष्टे शेषेऽर्थे टायनण् प्रत्ययो वा भवति । राङ्कवायणः, पक्षेऽण् । राङ्कवो गौः । प्राणिनीति किम् ? राङ्कवः कम्बलः । मनुष्ये तुप्राणिन्यपि कच्छादिपाठात् 'कच्छादे नृस्थे' (६-३-५४) इति परत्वादकडेव भवति । राकवको मनुष्य: ।१५।