________________
१०२ ।
बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ३ सू. ८-११ ] द्यप्रागपागुदकप्रतीचो यः ॥ ६. ३. ८॥ __ दिवशब्दात् प्राच अपाच उदच् प्रत्यच् इत्येतेभ्यश्चाव्ययानंव्ययेभ्यः शेषेऽर्थे यः प्रत्ययो भवति । दिवि भवं दिव्यम्, प्राचि प्राग्वा भवं प्राच्यम्, एवमपाच्यम्, उदीच्यम्, प्रतीच्यम् । दिग्देशवृत्तेः प्रागादेरयं यः कालवृत्तेस्त्वव्ययात्परत्वात् 'सायम्'-(६-३-८७) इत्यादिना तनट् । अनव्ययात्तु 'बर्षाकालेभ्यः' (६-३-७९) इतीकण् । प्राक्तनम् प्राचिकमित्यादि ।८।
न्या० स० ग्रुप्रा.-प्रागादयः क्विबन्तास्ते श्वाप्रत्ययान्ता अव्ययसंज्ञास्तदनुत्पत्तावनव्ययसंज्ञा, विशेषानुपादानाच्चोभयेषामपि ग्रहणम् ।
ग्रामादीनञ् च ।। ६. ३. ९ ॥ __ ग्रामशब्दाच्छेषेऽर्थे ईनञ् चकाराद्यश्च प्रत्ययो भवति । ग्रामीणः ग्राम्यः, अकारः पुंवद्भावप्रतिषेधार्थः, ग्रामीणा भार्याऽस्य ग्रामीणाभार्यः ।। कन्यादेश्चैयकञ् ॥ ६. ३.१०॥
__ कश्चि इत्येवमादिभ्यो ग्रामशब्दाच्च शेषेऽर्थे एयकञ् प्रत्ययो भवति । कात्रेयक: पौष्करेयकः, ग्राम, ग्रामेयकः, एवं च ग्रामशब्दस्य त्रैरूप्यं भवति । कत्रि, पुष्कर, पुष्कल, पौदन, उम्पि, उम्भि, औम्भि, कुम्भी, कुण्डिना, नगर, महिष्मती, वर्मवती, चर्मण्वती इति कठ्यादिः । नगरशब्दो महिष्मत्यादिसाहचर्यात् संज्ञायामेयक.जमुत्पादयति अन्यत्राणमेव ।१०।
न्या० स० कश्या०-कच्यादि गणो विव्रियते-कुत्सितास्त्रयो धर्मार्थकामा यस्य कत्रिः, पांक विप् , पा ओदनो यस्य पौदनः, उभत् 'पदिपठि' ६०७ ( उणादि) इति भण्यादित्वादौ भस्य वा पत्वे उम्पि, उम्भि, उम्भस्यापत्यं इञि औम्भि, कुम्भाज्जातौ इयां कुम्भी, कुदुङ् 'विपिन' २८४ ( उणादि) इति कुण्डिना, महिषा अत्र सन्ति महिष्मती, चर्माणि तनोति 'क्वचित्' ५-१-१७१ इति डे गौरादिङ्थाम । _____ संज्ञायामिति अयभों महिष्मत्यादयो नगर्यादिवाचकाः संज्ञाशब्दास्तत् साहचर्यान्नगरशब्दोऽपि स्थानविशेषवाची प्रत्ययं जनयति न सामान्यपत्तनवाची तर्हि कथं नागरो ब्राह्मणः ? सत्यं देवतार्थे भविष्यति । कुण्डयादिभ्यो यलुक् च ॥ ६. ३. ११ ॥
कूण्डयादिभ्यः शेषेऽर्थे एयकञ् प्रत्ययो भवति तत्संनियोगे यलुक चैषां भवति । कोण्डेयकः, कौणेयकः । कुण्ड्या, कुण्या, उक्ष्या, भाण्डया, ग्रामकुड्या, तृण्या, वन्या, पल्या, पुल्या, मुल्या इति कुण्ड्यादिः। बहुवचनं प्रयोगानुसरणार्थम् ।११॥