________________
[ पाद. ३. सू. ३-७] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [१०१ इति शफरः, कु ईषत शफरो मत्स्यो यस्याः ‘अल्पे' ३-२-१३६ कादेशे काशफरी, खदिरा अत्र सन्ति, 'तदत्रास्ति' ६-२-७० खादिरी ।
पूर्व च तत् नगरं च पूर्वनगरं, पूर्वति 'निधृषि' ५११ ( उणादि) इति वा पूर्वः नश्यन्ति अत्र चौग इति नगरी, पूर्वा चासो नगरी च पूर्वन गरी पूर्व नगिरीति 'नाम्युपान्त्य' ६०९ ( उणादि) इति प्रसाधि ।।
पूर्यते 'गपृदुर्वि' ९४३ ( उणादि) इति पुर ।
वन्यते 'वर्षादयः' ५-३-२९ इति वनं, गिरन्ति श्वापदा अत्र 'नाम्युपान्त्य' ६०९ ( उणादि ) इति गिरिः, वनप्रधानो गिरिः वनमिरिः, न विद्यते गिरिय॑स्य नगिरिः, न गृणाति वा नगिरिः, पूर्वश्चासौ नगिरिश्च ।
पवमानं मवभानं भवन्तं वा प्रयुक्ते पावयति मावयति पावा, मावा । मलमानं प्रयुङ्क्ते मालयति 'प्रह' ५१४ ( उणादि ) इति माल्वा, दृणाति 'प्रह' ५१४ ( उणादि) इति दार्वा, सां लक्ष्मीमितः प्राप्तः सेतः को ब्रह्मा यस्यां सेतकी, गौरादित्वात् यां, सेतुः सेतुबन्धोऽत्रास्ति ‘तदत्रास्ति' ६-२-७० सैतवी, इति नद्यादिः। राष्ट्रादियः ॥ ६. ३. ३ ॥
राष्ट्रशब्दात्प्रागजितीये शेषेऽर्थे इयः प्रत्ययो भवति । राष्ट्रे क्रीतः कुशलो जातो भवो वा राष्ट्रियः । शेषे इत्येव ? राष्ट्रस्यापत्यं राष्ट्रिः।३। दूरादेत्यः ॥ ६. ३. ४ ॥
दूरशब्दात् शेषेऽर्थे एत्यः प्रत्ययो भवति । दूरे भवो दूरेत्यः ।४। उत्तरादाहञ् ॥ ६. ३.५॥
उत्तरशब्दाच्छेषेऽर्थे आहञ् प्रत्ययो भवति । औत्तराहः, औत्तराहा स्त्री, औत्तराहीति उत्तराहिशब्दाद्भवार्थेऽणि ।५।
न्या० स० उत्तरा०-उत्तराहिशब्दादिति उत्तरा दिग्देशो वा रमणीयः 'वोत्तरात्' ७-२-१२१ इत्याहिः प्रत्ययः, कालार्थत्वे त्वाहिप्रत्ययान्तात् 'सायंचिरं' ६-३-८८ इति तनडेव न त्वम् । पारावारादीनः ॥ ६. ३. ६ ॥
पारावारशब्दाच्छेषेऽर्थे ईनः प्रत्ययो भवति । अवारस्समुद्रस्तस्य पारम् राजदन्तादित्वासारावारस्तत्र भवो जातो वा पारावारीणः ।६। व्यस्तव्यत्यस्तात् ॥ ६. ३. ७ ॥
पारावारशब्दाब्यस्ताविपर्यस्ताच ईनः प्रत्ययो भवति । पारीणः, अवारीणः, अवारपारीणः ।।
न्या० स० व्यस्त०-अवारपारीण इति राजदन्तादित्वाद्विकल्पेन पूर्वनिपातो न ।