________________
॥ तृतीयः पादः ॥
शेषे ॥ ६३. १ ॥
अधिकारोऽयम् यदित ऊर्ध्वमनुक्रमिष्यामः शेषेऽर्थे तद्वेदितव्यम्, उपयुक्तादन्यः शेषः, अपत्यादिभ्यः संस्कृतभक्ष्यपर्यन्तेभ्यो योऽन्योऽर्थः स शेषः, तस्येदं - विशेषा ह्यपत्यसमूहादयः तेषु वक्ष्यमाणा एयणादयो मा भून्निवति शेषाधिकारः क्रियते । किंच सर्वेषु प्राक् जितात् कृतादिषु वक्ष्यमाणाः प्रत्यया यथा स्यः अनन्तरेणैवार्थ निर्देशेन कृतार्थता माविज्ञायि इति साकल्यार्थं शेषवचनम् ।१।
न्या० स० शेषे – तस्येदमिति एयणादयश्च तस्येदमित्यर्थे विहितास्ततश्चापत्य समूहादिष्वपि प्राप्नुवन्ति तद् विशेषत्वात्तेषाम् । तेष्विति अपत्यसमूहादिषु अन्यत्रोपयुक्तत्वात्तेषां न केवलमपत्यादिषु एयणादीनां निवृत्तये शेषाधिकारः क्रियते, यावत्सर्वेषु कृतजातादिषु अस्येति षष्ठ्यर्थपणादीनां प्रवृत्त्यर्थश्चेत्याह- किं चेत्यादि अयमर्थः, संनिहितत्वात् कृतलब्धकीतादिष्वर्थेषु एणादीनां प्रवृत्तेर्व्यवहितेष्वर्थेषु प्रवृत्तिर्न भविष्यतीत्येवं शङ्का माभूदित्यर्थः । नद्यादेरे ॥ ६. ३. २ ॥
नद्यादिभ्यो यथासंभवं त्राग्जितीये शेषेऽर्थे एयण् प्रत्ययो भवति । नद्यां जातो भवो वा नादेयः, माहेयः, वानेयः, वन्य इति तु साधो यः । शेषः इति किम् ? नदीनां समूहो नादिकम्, नदी, मही, वाराणसी, श्रावस्ती, कौशाम्बी, वनकौशाम्बी, वनवासी, काशफरी, खादिरी, पूर्वनगर, पूर्वनगरी, पुर, वन, गिरि, पुर्, वनगिरि, पूर्वनगिरि, पावा, मावा, माल्वा, दार्वा, सेतकी, सैनवी इति नद्यादिः । इतः प्रभृति प्रकृतिविशेषोपादानमात्रेण प्रत्यया विधास्यन्ते तेषां कृतादयोऽर्था विभक्तयश्च परस्ताद्वक्ष्यन्ते ॥२॥
न्या० स० नद्यादे० - अथ गणः, नदति शब्दायते अवगाह्यमाना सती अचि नदी, मद्यते पूज्यते राजभिः मह इत्यकारान्ताद् वा ङी मही, वरः आणः शब्दो येषां वराणा वृक्षाः, तेऽत्र सन्ति वराणसा भद्दारिका तस्या अदूरभवा नगरी वाराणसी, शृण्वन्तं प्रयुङ्क्ते श्रावयति श्रावः, असि श्रावसं, तायते ' क्वचित्' ५-१-१७१ ( इति ) डे, गौरादित्वात् ङ्यां श्रावस्ती, कुशेनाम्बो यस्य कुश्यति वा 'तुम्बस्तुम्ब' ३२० ( उणादि ) इति कुशाम्बस्तेन निर्वृत्ता कौशाम्बी नगरी, वनप्रधाना कौशाम्बी नगरी, वनप्रधाना कौशाम्बी, कौ पृथिव्यां शाम्यति शम्यमे ३१८ ( उणादि) कुशम्बस्तेन निर्वृत्ता कौशाम्बी नगरी वनप्रधानाकौशाम्बी ।
वनं वासयति 'कर्मगोऽणू: ५-१-७२ वनवासी अटवी, ' शपेः फ च ' ४०१ ( उणादि )