________________
। पाद. ३. सू. १३२-१३७] श्रीसिद्धहेमचन्द्रशब्दानुशासने पष्ठोध्यायः [९७
पाण्डुकम्बलादिन् ॥ ६. २. १३२ ॥ __पाण्डुकम्बलशब्दात्तृतीयान्ताच्छन्ने रथे वाच्ये इन् प्रत्ययो भवति, अणोऽपवादः । पाण्डुकम्बलेन छन्नः पाण्डुकम्बली रथः ।१३२॥ दृष्टे साम्नि नाम्नि ॥ ६. २. १३३ ॥
दृष्ट इति प्रत्ययार्थस्तस्य साम्नीति विशेषणम् । तेनेति तृतीयान्तात् दृष्टं सामेत्यस्मिन् अर्थे यथाविहितं प्रत्ययो भवति नाम्नि प्रत्ययान्तं चेत्साम्नो नाम भवति । क्रुञ्चेन दृष्टं साम क्रौञ्चम, मृगीयुणा मार्गीयवम्, एवं मायूरम्। तैत्तिरम्, वासिष्ठम्, वैश्वामित्रम्, कालेयम्, आग्नेयम्, एवं नामानि सामानि ॥१३३॥
न्या० स० दृष्टे०-क्रुञ्चेनेति नडादिगणपाठात् क्रुचाशब्दस्य हृस्वः । गोत्रादयत् ॥ ६. २. १३४ ॥
___ गोत्रवाचिनस्तृतीयान्तात् दृष्टं सामेत्यस्मिन्नर्थे अङ्कवत् प्रत्ययो भवति । यथा तस्यायमङ्क इत्यत्रेदमर्थे प्रत्ययो भवति तथा दृष्टं सामेत्येतस्निन्नर्थेऽपि ।
औपगवेन दृष्टं साम औपगवकम्, कापट वकम्, वाहतवकम् । अङ्क इति विशेषोपादानेऽपि तस्येमित्यर्थमात्रं परिग ह्यते ।१३४॥ वामदेवाद्यः ॥ ६. २. १३५ ।।
वामदेवशब्दात्तृतीयान्तात् दृष्टे सामनि यः प्रत्ययो भवति । वामदेवेन दृष्टं साम वामदेव्यम् ।१३५॥
डिदाण् ॥ ६. २. १३६ ॥ - दृष्टं सामेत्यस्मिन्नर्थे योऽण् प्रत्ययो विहितः स डिद्वा भवति । उशनसा दृष्टं साम औशनम्, औशनसम् ।१३६।
वा जाते दिः ॥ ६. २. १३७ ॥ ___जात इत्यस्मिन्नर्थे योऽण् प्रत्ययो द्विविहित उत्सर्गेण प्राप्तोऽपवादेन बाधितः सन् पुनविहितः स डिद्वा भवति । शतभिषजि जातः शातभिषः शातभिषजः। द्विरिति किम् ? हिमवति जातो हैमवतः, केचित्तु द्विडित्त्वमिच्छन्ति, तन्मते द्विडित्त्वात् द्विरन्त्यस्वरादिलोपे शातभ इत्यपि भवति, एवं पूर्वसूत्रेऽपि । औशं साम, एवं च योगद्वयेऽपि त्रैरूप्यं सिद्धम् ।१३७।।
न्या० स० वा जा०-शातभिष इति शतं भिषजोऽस्याः शतभिषजा चन्द्रयुक्तया युक्तः