________________
९८ ]
बृहद्वृत्ति- लघुन्यास संवलिते
[ पाद. २. सू. १३८-१४३ ] कालोऽण्, लुप् 'जाते' ६-३-९८ इत्यणो बाधको 'वर्षाकालेभ्यः ६-३-८० इकण् पुनस्तद्बाधको 'भतु संध्यादेरण्' ६-३-८९ ।
इत्याचार्य श्री हेमचन्द्र० षष्ठस्याध्यायस्य द्वितीयः पादः समाप्तः ।
तत्रोद्धृतेपात्रेभ्यः ॥ ६. २. १३८ ॥
तत्रेति सप्तम्यन्तात्पात्रवाचिनः उद्धृत इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । शरावेषु उद्धृत ओदनः शाशवः, माल्लक:, कार्परः । पात्रेभ्य इति । किम् ? पाणावुद्धृत ओदनः, बहुवचनं पात्रविशेषपरिग्रहार्थम् । १३८ ।
स्थण्डिलाच्छेते व्रती ॥ ६. २. १३९ ॥
स्थण्डिलशब्दात्सप्तम्यन्ताच्छेते इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति योऽसौ शेते स चेद्व्रती भवति । तत्र शयनव्रतोऽन्यत्र शयनान्निवृत्त इत्यर्थः, स्थण्डिल एव शेते स्थाण्डिलो भिक्षुः । व्रती इति किम् ? स्थण्डिले शे बाल: ।१३९।
संस्कृते भक्ष्ये ।। ६. २. १४० ।।
संस्कृत इति प्रत्ययार्थः । तस्य विशेषणं भक्ष्य इति । तत्रेति सप्तम्यन्तात्संस्कृते भक्ष्ये यथाविहितं प्रत्ययो भवति । सत उत्कर्षाधानं संस्कारः, भ्राष्ट्रे संस्कृता भ्राष्ट्रा अपूपाः, एवं कैलासाः । पात्राः । भक्ष्ये इति किम् ? फलकं संस्कृता माला । १४० ।
शूलोखाद्यः ।। ६. २. १४१ ॥
शूलोखाशब्दाभ्यां सप्तम्यन्ताभ्यां संस्कृते भक्ष्ये यः प्रत्ययो भवति । शूले संस्कृतं शूल्यं मांसम्, उखायाम् उख्यम् ।१४१।
क्षीरादेय ।। ६. २. १४२ ॥
क्षीरशब्दात्सप्तम्यन्तात्संस्कृते भक्ष्ये एयण् प्रत्ययो भवति । क्षीरे संस्कृतं भक्ष्यं क्षैरेयम् । क्षैरेयी यवागूः । १४२ ।
दध्न इक ॥। ६. २. १४३ ॥
दधिशब्दात्सप्तम्यन्तात् संस्कृते भक्ष्ये इकण् प्रत्ययो भवति, दनि संस्कृतं भक्ष्यं दाधिकम् । ननु च संस्कृतार्थे इकण् वक्ष्यते तेनैव सिद्धम् ? न सिध्यति । दध्ना हि तत्संस्कृतं यस्य दधिकृतमेवोत्कर्षाधानम्, इह तु दधि केवलमाधारभूतं द्रव्यान्तरेण तु लवणादिना संस्कारः क्रियते ॥ १४३॥