________________
९६ ] बृहवृत्ति-लघुन्याससंवलिते [पाद. २ सू० १३०-१३१ । आर्हतमधीते, कचिद्वृत्तिः आर्हत इति । इह पुननियमायुगपदेव विग्रहः । . कठेन प्रोक्तमधीयते कठा इति ।१३०।
न्या० स० वेदेन ब्राह्मण प्रथमान्तमिति अर्थवशाद विभक्तिपरिणामः, स्वातन्त्र्यमिति वेत्त्यधीते वेत्यर्थरहितं न प्रयुज्यत इत्यर्थः । उपाध्यन्तरयोग इति कठेन प्रोक्तं शोभनं वेदं विदन्त्यधीयते वा इति विशेषणयोगो न भवतीत्यर्थः। मुदपिप्पलादाभ्यामृष्यणि मौदः, पैप्पलाद: ततो 'मौदादिभ्यः, ६-३-१८२ इतीयापवादोऽण, ऋग्भिराभातीति ऋगाभः, पृषोदरादित्वात् गस्य चत्वे ऋचाभः, ततः प्रोक्ते शौनकादित्वाण्णिन्, तदन्तादनो लुप् , वाजसनाया अपत्यं 'ङ्याप्त्यूङः' ६-१-७० (इति) एयण, शौणकादित्वाण्णिन् ततोऽण लुप् , तण्डिन्शब्दाद्गर्गादियबन्तात् शौनकादित्वाण्णिन् ततोऽण् लुप् , भल्लवशब्दादिनन्तात् प्रोक्तार्थे पूर्ववण्णिनादयः । शादयायनिन इति शटशब्दात् गर्गादियबन्तात् तिकाद्यायनिञ् , एके त्वयबन्तं तिकादौ पठन्ति तन्मते 'यवित्र' ६-१-५४ इत्यायनणि पूर्ववत् शौनकादित्वात् णिन्नादौ शाट्यायनिनः, इतरस्यापत्यं शुभ्रादित्वादेयणि एतरेयः, ततः पूर्ववण्णिनादौ ऐतरेयिणः ।
इन्ग्रहणमिति तेन याज्ञवल्कानि ब्राह्मणानीत्यनिनन्तस्य वेद इति नियमो निवर्त्तते ।
प्रोक्तानुवर्तनमिति अयमर्थः, ऋगादयः शब्दा वेदवाचिनो भवन्ति न तु प्रोक्तप्रत्ययान्ता इति, यदि प्रोक्तग्रहणं नानुवर्तेत तदात्रापि वेत्त्यधीते वेत्येतद्विषय एवेति प्रयोगनियमः प्रसज्येत ततश्च ऋचस्तिष्ठन्ति इत्यादि वक्तुं न लभ्येत । ____ आहेत इतीति अर्हता प्रोक्तं 'तेन प्रोक्त' ६-३-१८१ इत्यणू आहेतं वेत्त्यधीते वा अण् तस्य लुप् ।
तेन छन्ने रथे । ६. २. १३१ ।। ___ छन्न इति प्रत्ययार्थो रथ इति तस्य विशेषणम्, तेनेति तृतीयान्तात् छन्ने रथेऽभिधेये यथाभिहितं प्रत्ययो भवति । वस्त्रेण छन्नो रथः वास्त्रः, काम्बलः, चार्मणः, द्वैपेन चर्मणा द्वैपः, वैयाघ्रण वैयाघ्रः । रथ इति किम् ? वस्त्रेण छन्नः काय:, छन्नशब्देन समन्ताद्वेष्टितं व्याप्तमुच्यते, तेनेह न भवति । पुत्रैः परिवृतो रथः, इह कथमण भवति । न विद्यते पूर्वः पतिर्यस्याः सा अपूर्वा कुमारी तादशी कुमारीमुपपन्न: कौमारः पतिरिति, तत्र ‘भवे' (६-३-१२२) इत्यण भविष्यति । कुमार्यां भवः कौमारः पतिः धवयोगे तु कौमारी भार्येत्यपि सिद्धम् ।१३१।
न्या० स० तेन०-वैयाघेणेति व्याघ्रस्य विकारः 'प्राण्यौषधि' ६-२-३१ इत्यण् , इदमर्थे त्वीयः स्यात् ।
कथमण भवतीति परैस्तावदत्र कौमारापूर्ववचन इति कौमारशब्दोऽणन्तो वृत्तिप्रदर्शितेऽर्थे निपात्यते, स्वमते त्वस्मिन्नर्थेऽविधायकसूत्राभावात् कथम् ? इत्याशङ्का ।