SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ [पाद. २. सू. १२९-१३० श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [ ९५ ६-३-१८१ इत्यण 'कलापि' ७-४-७२ इत्यन्त्यस्वरादिलुप् , कुत्सितं कालापं कालापर्क तद्विदन्ति अधीयते वा तदा लुप्यलुपि वा न विशेषो वृद्धस्तथैव सद्भावात् । प्रोक्तात् ॥ ६. २. १२९ ॥ प्रोक्तार्थविहितः प्रत्यय उपचारात् प्रोक्त इत्युच्यते, तदन्तान्नाम्नो वेत्त्यधीते वेत्यर्थे उत्पन्नस्य प्रत्ययस्य लुब् भवति । गोतमेन प्रोक्तं गौतमम्, तद्वेत्त्यधीते वा गौतमः । सुधर्मेण सुधर्मणा वा प्रोक्त सौधर्मम् सौधर्मणं वा तद्वेत्यधीते वा सौधर्मः सौधर्मणः, एवं भाद्रवाहवः । पाणिनीयः, आपिशलः, स्त्रियां विशेषः । गौतमा सौधर्मा सौधर्मणा स्त्री इत्यादि । अणो लुप्यणन्तस्वाभावात् ङोर्न भवति ।१२९। न्या० स० प्रोक्तात्-सुधर्मेणेति शोभनो धर्मो यस्य 'द्विपदाधर्मादन् ' ७-३-१४१ इत्यस्यैकेषां मते विकल्पः। ___ स्त्रियां विशेष इति नन्वत्र प्रत्ययलुप्यलुपि वाऽविशेषस्तकिमर्थमिदं सूत्रं ? इत्याशङ्का सीन भवति अत्र हि यस्यां स्त्रियां योऽण् विहितः, स लुप्तः यश्च विद्यते तस्य न स्त्री । वेदेन्ब्राह्मणमत्रैव ॥ ६. २. १३० ॥ प्रोक्तग्रहणमिहानुवर्तते । तच्च प्रथमान्तं विपरिणम्यते । प्रोक्तप्रस्ययान्तं वेदवाचि इनन्तं च ब्राह्मणवाचि अत्रैव वेत्त्यधीते वेत्येतद्विषये एव प्रयुज्यते, तेन स्वातन्त्र्यम् उपाध्यन्तरयोगो वाक्यं च निवर्तते । वेद, कठेन प्रोक्तं वेदं विदन्त्यधीयते वा कठाः, एवं कलापिना कालापाः, मौदेन मौदाः । पैष्पलादेन पैष्पलादाः, ऋचाभेन आर्चाभिन: वाजसनेयेन वाजसनेयिनः, इन् ब्राह्मणं खल्वपि । ताण्डयेन प्रोक्त ब्राह्मणं विदन्त्यधीयते वा ताण्डिनः । भाल्लविना भाल्लविनः । शाटयायनिना शाटयायनेन वा शाटयानिनः, ऐतरेयेण ऐतरेयिणः। इन्ग्रहणं किम् ? याज्ञवल्क्येन प्रोक्तानि ब्राह्मणानि याज्ञवल्क्यानि । 'शकलादेर्यजः' (६-३-२७) इत्यञ्, सौलाभेन सौलाभानि । 'मौदादिभ्यः' (६-३-१८०) इत्यण् । ब्राह्मणमिति किम् । पिङ्गेनं प्रोक्तः पैगी कल्पः । ब्राह्मण बेद एव तत्र वेद इत्येव सिद्ध अनिनन्तस्य नियमनिवृत्त्यर्थमिनब्राह्मणग्रहणम् । प्रोक्तानुवर्तनं किमर्थम् । ऋचः यजूषि सामानि मन्त्राः वेदः । आरम्भसामर्थ्यादवधारणे सिद्ध उभयावधारणार्थमेवकारः । प्रोक्तप्रत्ययान्तस्यात्रैव वृत्तिर्नान्यत्र तथात्र वृत्तिरेव न केवलस्य प्रोक्तप्रत्ययान्तस्यावस्थानम् । अन्यत्र स्वनियमात्कचित्स्वातन्त्र्यं भवति, अर्हता प्रोक्तमार्हतं शास्त्रम् । कचिदुपाध्यन्तरयोगः। आर्हतं महत्सुविहितमिति, कचिद्वाक्यम् ।
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy