________________
९४]
बृहवृत्ति-लघुन्याससंवलिते [ पा० २. सू० १२५-१२८ ] पदोत्तरपदेभ्य इकः ॥ ६. २. १२५ ॥
पदशब्द उत्तरपदं यस्य तस्मात्पदशब्दात्पदोत्तरपदशब्दाच्च वेत्त्यधीते । वेत्यर्थे इकः प्रत्ययो भवति । पूर्वपदिकः, उत्तरपदिकः, पूर्वपदिका, उत्तरपदिका, पद पदिकः, पदिका, पदोत्तरपदिकः, पदोत्तरपदिका । बहुवचनं सर्वभङ्गपरिग्रहार्थम् ।१२५।
न्या० स० पदोत्तरपदेभ्यः पदशब्द उत्तरपदं यस्य पदोत्तरपदश्च पदश्च पदोत्तरपदश्च सूत्रत्वादेकशेषः । पदक्रमशिक्षामीमांसासाम्नोऽकः ॥ ६. २. १२६ ॥
पद क्रम शिक्षा मीमांसा सामन् इत्येतेभ्यो तद्वेत्त्यधीते वेत्यर्थेऽकः प्रत्ययो भवति । पदकः, क्रमकः, शिक्षकः, मीमांसकः, सामकः । उपनिषच्छब्दादपीच्छति कश्चित् । उपनिषदकः, के सति शिक्षाका शिक्षिका शिक्षका । मीमांसाका मीमांसिका मीमांसकेति रूपत्रयं स्यात् । शिक्षिका मीमांसिकेति चेष्यते, तदर्थमकवचनम् ।१२६।।
न्या० स० पदक्रम०-रूपत्रयमिति ‘इच्चापुंसोनिक्याप्परे' २-४-१०७ इत्यनेन । ससर्वपूर्वाल्लुप् ॥ ६. २. १२७ ।। __ सपूर्वात्सर्वपूर्वाच्च वेत्त्यधीते वेत्यर्थे विहितस्य प्रत्ययस्य लुप् भवति । सवातिकमधीते सवार्तिकः, ससंग्रहः, अणो लुप् । सकल्पः, अत्रेकणः, सर्ववेदः, सर्वतन्त्रः, अत्राणः, सर्वविद्यः, अत्रेकणः । कथं द्विवेदः पश्चव्याकरण इति ? 'द्विगोरनपत्ये यस्वरादेलु बद्विः' (६-१-२४) इति लुपि भविष्यति ।१२७। संख्याकात्सूत्रे ॥ ६. २. १२८ ॥
संख्यायाः परो यः कः प्रत्ययो विहितस्तदन्तात्सूत्रे वर्तमानात् नाम्नो वेत्त्यधीते वेत्यर्थे उत्पन्नस्य प्रत्ययस्य लुब् भवति, अप्रोक्तार्थ आरम्भः । अष्टावध्यायाःपरिमाणमस्य अष्टकं सूत्रम् । तद्विदन्ति अधीयते वा अष्टकाः पाणिनीयाः, आपिशलीयाः, त्रिकाः काशकृत्स्नाः, दशका उमास्वातीयाः, द्वादशका आर्हताः, संख्याग्रहणं किम् ? माहावातिकाः, कालापकाः । कादिति किम् ? चतुष्टयं सूत्रमधीयते चातुष्टयाः ।१२८॥
न्या० स० संख्याका०-अप्रोक्तार्थ आरम्भ इति अन्यथोत्तरेणैव सिध्यति, त्रयोदश चाध्याया मानमस्य अवयवात्तयट्बाधकः 'संख्याऽतेः कः' ६-४-१३०, त्रिकं दशकं च विदन्त्यधीयते वा यदा तु 'क्वचित्' ५-१-१७१ इति डे कलापोऽस्यास्ति, कलापिना प्रोक्तं 'तेन प्रोक्तं'