________________
६० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-१, सूत्र-५७-६०
ऋमतां धातूनां यङो लुपि द्वित्वे सति पूर्वस्य रिरौ री चान्तो भवति । कृ-चरिकति, चर्कति, चरीकति, ह-जरिहति, जर्हति, जरीहति, नरिनृतीति, नरिनति, न तीति, नति, नरीनृतीति, नरीनति, वरिवृश्चीति, वरिवृष्टि, ववृश्चीति, वर्वृष्टि, वरीवृश्चीति, वरीवृष्टि, चलिक्लुपीति, चलिकल्प्ति, चल्क्लुपीति, चल्कल्प्ति, चलीक्लपीति, चलीकल्प्ति । लुपीति किम् ? नरीनृत्यते । ऋमतामित्येव,-कृ-चाकरीति, चाकति, चाकीर्तः, चाकिरति, गृ,-जागल्ति, तृ-तातति ॥५६।।
न्या० स०-रिरौ च ०-वरीवृष्टीति-'संयोगस्यादौ' २-१-८८ इति शलोपे 'यजसृज' २-१-८७ इति चस्य षः, परे गुणे विधेये शलोपश्चाऽसन् इति गुणाभावः । जागल्तीतिअय्वृल्लेनदित्युक्तेर्यङ्लुप्यपि 'ग्रो यङि' २-३-१०१ इति लत्वम् ।
निजां शित्येत् ॥ ४. १,५७ ।।
निजिविजिविषां त्रयाणां शिति द्वित्वे सति पूर्वस्यैकारादेशो भवति । नेनेक्ति, नेनिक्ते, नेनिज्यात , नेनेक्तु, अनेनेक् , वेवेक्ति, वेविक्ते, देवेष्टि, वेविष्टे । शितीति किम् ? निनेज, निनिक्षति, अनीनिजत् । निजामिति बहुवचनेन निजिविजिविषस्त्रय एवादादिपर्यन्तपठिता गृह्यन्ते ॥५७।।
प-भू-माहा-ङामिः॥ ४.१, ५८ ॥
प्रऋभ मा हाङ् इत्येतेषां शिति द्वित्वे सति पूर्वस्येकारो भवति । पिपति, पिपृयात , इति, इययाव , बिर्भात, बिभृयात् , मिमीते, अमिमीत. जिहीते, अजिहीत । केचित्तु प पालनपूरणयोरिति जुहोत्यादौ दोर्घत्वं पठन्ति, तन्मतसंग्रहार्थं पृश्च ऋश्चेति विग्रहोऽऽत एव च बहुवचनम् । पिपति, पिपूर्तः पिपूर्यात् । हाङिति ङकारः किम् ? ओहांक्-जहाति । शितीत्येव,-पपार, आर, बभार, ममे, जहे। शितीति द्वित्वस्य विशेषणं किम् ? पर्पति, परीपति । अत्र यङन्तस्य द्वित्वं न शितीति न भवति ।।५।।
न्या० स०-पभृमाहा-शिति द्वित्वे सति भणनात् पङ्त इत्यस्य व्युदासः ।
सन्यस्य ॥ ४. १. ५१ ॥
धातोद्वित्वे सति पूर्वस्याकारस्य सनि परे इकारो भवति । पिपक्षति, पिपासति, प्रतीषिषति, जिह्वायकोयिषति । सनीति किम् ? पपाच । अस्येति किम् ? लुलषति, पापचिषते ॥५९।
ओन्तिस्थापवर्गेऽवणे ॥ ४. १. ६० ॥
धातोद्वित्वे सति पूर्वस्योकारान्तस्यावर्णान्ते जान्तस्थापवर्गे परतः सनि परे इकारोऽन्तादेशो भवति । जुसौत्रो धातुः-जिजावयिषति, यियविषति, यियावयिषति, रिरावयिषति, लिलावयिषति, पिपविषते, पिपावयिषति, विभावयिषति, मिमावयिषति । प्रोरिति