________________
पाद-१, सूत्र-६१-६२ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[६१ .
किम् ? पापचिषते । जान्तस्थापवर्ग इति किम् ? अवतुतावयिषति, जुहावयिषति, शुशावयिषति । अवर्ण इति किम ? बुभूषति, जुज्यावयिषति । सनीत्येव,-लुलाव । ननु ण्यन्तानां वृदध्यवादेशयोः कृतयोद्वित्वे सति पूर्वस्याकारान्तता न सभवति, तत्र 'सन्यस्य' (४-१-५९ ) इत्यनेनैव सिद्धे कि गुरुणा सूत्रेण, एतावत्त विधेयम् 'ओः पयेऽवणे' इतिपिपविषति, यियविषतीत्यत्र पूर्वस्योकारान्तस्येत्वं यथा स्यात् ? सत्यं, * णौ यत्कृतं कार्य तत्सर्व स्थानिवद्भवति * इति न्यायज्ञापनार्थ वचनम् , तेन पुस्फारयिषति चक्षावयिषति, शुशावयिषतीत्याद्यपि सिद्धम् । एतच्च ज्ञापकं जान्तस्थापवर्गवत् अन्यत्राप्यवर्ण एव द्रष्टव्यम् , तेनाचिकीतदित्यत्रेकारवतो द्विर्वचनं सिद्धम् ॥६०॥
___ न्या० स०-ओन्तिस्था०-यियविषतीति-'युगश् योतुमिच्छति युमिश्रणे यवितुमिच्छति सन् ‘इवृध' ४-४-४७ इट् । जुहावयिषतीति-ह्वयन्तं प्रयुक्त णिग् 'णौ ङसनि' ४-१-८८ इति णिविषयेऽपि य्वृत् , हाययितुमिच्छति-हुंक् इत्यस्य तु हावयितुमिच्छति सन् । शुशावयिषतीति-श्वयन्तं प्रयुङ क्ते णिग् 'श्वेर्वा' ४-१-८९ इति णिविषये वृत् , श्वाययितुमिच्छति । अन्यत्रापीति- ओर्जान्तस्थापवर्गेऽपीत्यर्थः, तेनाचिकीर्तदिति-ननु कोादेशस्यानिमित्ते एव विधानात् निमित्तत्वाऽभावे कथं णौ यत्कृतं कार्यम् * इति न्यायेन स्थानित्वप्राप्तिरिति ? सत्यं-यद्विना यन्न भवति तत्तस्य निमित्तमिति कृत्वा णिज् निमित्तं कीर्तेः, यतश्चुरादीनां णिच् अवश्यमेव भवति, ततो णिसंनियोगे कोल्देशोऽत निमित्तत्वम् ।
श्रु-सु-द्रु-झुप्लुच्योर्वा ॥ ४. १. ६१ ॥
एषां सनि परे द्वित्वे सति पूर्वस्योकारान्तस्यान्तस्थायामवर्णान्तायां परत इकारोऽन्तादेशो वा भवति । शिश्रावयिषति, श्रुश्रावयिषति, सिस्रावयिषति, सुस्रावयिषति, दिद्रावयिषति, दुद्रावयिषति, पिप्रावयिषति, पुप्रावयिषति, पिप्लावयिषति, पुप्लावयिषति, चिच्यावयिषति, चुच्यावयिषति । वचनादेकेनावणेनान्तस्थाया व्यवधानमाश्रीयते । अवर्ण इत्येव,-श्रुश्रूषते, सुन षति । ओरित्येव,-सोनविषति ॥६१॥
न्या० स०-श्रुत्र द्रु०-सोस्रविषतीति-कुटिलार्थे यङ लुबन्तस्य सनि स्रवतेः प्रयोगः, यदि शृणोतेः स्यात्तदा सनि प्रत्यये परे 'श्रुवोऽनाङ प्रतेः' ३-३-७१ इत्यात्मनेपदं स्यात्, अतः कारणात् शोधितम् ।
स्वपो णावुः ।। ४. १. ६२ ॥
सनोति निवृत्तम् , स्वपेणौं सति द्वित्वे कृते पूर्वस्योकारोन्तादेशो भवति । सुष्वाप। यिषति, स्वपेणौ णके क्यनि णो डेच असुष्वापकीयत् । स्वापेः क्विबन्तात्कर्तुः क्विपि यङ. सोष्वाप्यते । अन्ये तु णौ सति क्विबनिमित्तानन्तर्ये एवेच्छन्ति । स्वापकीयतेः सनि सिष्वापकीयिषति । णाविति किम् ? णकान्ताक्यनि सनि च सिष्वापकोयिषति । स्वपो णाविति किम् ? स्वापं चिकीर्षति सिष्वापयिषति,-अत्र न स्वपेणिर्घना व्यवधानात् । स्वपो णौ सति