________________
६२ ]
बृहवृत्ति-लघुन्याससंवलिते
[ पाद-१, सूत्र-६३-६४
अवान
द्वित्व इति किम् ? सोषोपयिषति,-अत्र यङ्लुबन्ताव द्वित्वे सति णिर्न तु णौ तति द्वित्वमिति ॥६२॥
न्या० स०-स्वपो०-अनन्तराऽनन्तरिभावसंबन्धे षष्ठी आनन्तर्यषष्ठ्याः फलमसु. प्वापकीयत् , सनीति निवृत्तं कार्यान्तरविधानात् ।
नन्वऽस्वापपकीय दित्यादौ 'स्वपोणावः' ४-१-६२ इत्युकारः कथं न ? उच्यते-स्वपेः संबन्धी अकारो नास्ति, किंतु णकसंबन्धी अकार इति ।
सिष्वापकोयिषतीति-स्वपन्तं प्रयुङक्त णिग् , स्वापयतीति णकः, स्वापकमिच्छति क्यन् , स्वापकीयितुमिच्छति सन् , ततो 'णिस्तोरेव' २-३-३७ इति षत्वम् ।
सोषोपयिषतीति-भृशार्थे यङ् लुप् 'स्वपेय ङ ङ च' ४-१ ८० इति यङ लुप्यपि स्वत् , ततो द्वित्वं, सोषुपतं प्रयुङ क्ते णिग् सोषोपयितुमिच्छति सन् ‘णिस्तोरेव' २-३-३७ इति षत्वम् । असमान-प्रयोजितवानिति प्रयुक्तवानित्यर्थः, यौजादिकस्य प्रयोगात् ।
अवीवदत वीणामिति-वदति वीणा तां परिवादकः प्रयुक्तवान् तमऽन्यः प्रयुक्तवान् णिगद्वय । यद्यप्यत्र णौ णेर्लोपौऽभूतथापि न समानलोपः, यतो णाविति जात्या एकवचनं ततश्च यः कश्चित् णिग् स सर्वोऽपि निमित्ततयोपात्तः, अतः स लुप्तोऽपि निमित्तं, एवमपीपठदित्यत्रापीति ।
असमानलोपे सन्वल्लघुनि डे ।। ४. १. ६३ ॥
न विद्यते समानस्य लोपो यस्मिन् ङपरे णौ द्वित्वे सति पूर्वस्य लघुनि धात्वक्षरे परे सनीव कार्य भवति । सन्यस्येत्वमुक्तमिहापि तथा अचोकरत , अजीहरत् । 'ओन्तिस्थापवर्गेऽवणे' ( ४.१-६३ ) इत्युक्तमिहापि तथा-अजीजवत , प्रयीयवत् , अरीरवत , अलीलवत , अपीपवन , अबीभवत् , अमीमवत् । 'श्रुन द्रुप्लुच्योर्वा' (४-१-९१) इत्युक्तमिहापि तथा-अशिश्रवत् , अशुश्रवत् , अदिद्रवत् , अदुद्रवत् , अपिप्रवत् , अपुप्रवत् , अपिप्लवत् , अपप्लवत , अचिच्यवत, अचच्यवत् । अन्यस्य न भवति-अननवत, अज हवत । लघनीति किम् ? अततक्षत् , अबमाणत् , अचिक्रमत् , अचिक्वणत् इत्यादी अनेकव्यञ्जनव्यवधानेऽपि स्थादीनामित्त्वबाधकस्यात्वस्य शासनात् सन्वद्भावो भवति, न तु स्वरख्यञ्जनव्यवायेऽपि तेन अजजागरत् । णावित्येव, अचकमत । असमानलोप इति किम् ? प्रचकथत , दृपदमाख्यात् अददृपत् । पटुं लघु कषि हरि वाख्यत् अपीपटत् , अलीलघत् , अचीकपत् , अजीहरत इत्यादौ तु वृद्धो कृतायां सन्ध्यक्षरलोप इति असमानलोपत्वात्सन्वद्धावः। णाविति जात्याश्रयणात वादितवन्तं प्रयोजितवान् अवीवदद्वीणां परिवादकेन, अपीपठन्माणवकमुपाध्यायेन,-अत्र णे समानस्य लोपेऽपि भवति ॥६३।।
लघोर्दीर्घोऽस्वरादेः॥ ४. १. ६४ ॥
अस्वरादेर्धातोर्डपरेऽसमानलोपे णौ द्वित्वे सति पूर्वस्य लघोर्लघुनि धात्वक्षरे परे दो| भवति । अचोचरत् , प्रलीलवत् , अतूतवत् अबूभुजत् । लघोरिति किम् ? अचि