________________
पाद-१, सूत्र-५३-५६]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[८९
न्तम् । जंजभीति-आगमशासनमनित्यमिति 'जभः स्वरे' ४-४-१०० इति नागमाभावः । लप्तनकारेति-'गलुप' ३-४-१२ इत्यत्रापि ज्ञापितं परं * द्विर्बद्धं सुबद्धं भवति * इत्यत्रापि ज्ञापितम् ।
चरफलाम् ॥ ४. १.५३ ॥
चरफलजिफला इत्येषां यङन्तानां द्वित्वे सति पूर्वस्य मुरन्तो भवति । चंचर्यते, चञ्चुरीति, पम्फुल्यते, पम्फुलीति । बहुवचनं जिफलाविशरणे इत्यस्यापि परिग्रहार्थम् ॥५३॥
ति चोपान्त्यातोऽनोदुः॥ ४. १. ५४ ॥
यङन्तानां चरफलां तकारादौ च प्रत्यये उपान्त्यस्यात उरादेशो भवति स चानोत्' तस्य गुणो न भवति । चंचर्यते, चंचुरीति, पंफुल्यते, पंफुलीति, चत्तिः, ब्रह्मणिः , प्रफुल्लिः , प्रफुल्लः, प्रफुल्लवान् । प्रत इति किम् ? चारयतेः फालयतेश्च क्विप् , तत आचारे क्विप् , ततो यङ् चंचार्यते पंफाल्यते । अत्रैकदेशविकृतस्यानन्यत्वात्प्राप्नोति । अनोदिति किम् ? चंचूर्ति, पंफुल्ति-अत्र गुणो न भवति ॥५४।।
न्या० स०-तिचोपान्त्या०-यङन्तानामिति-द्वित्वे सति ज्ञातव्यं न पूर्वस्य उपान्त्याऽकारस्य ग्रहणात् । चञ्चर्यते इति-द्वित्वे सतीत्यधिकारान्न पूर्वमुत्वम् । चूत्तिरित्यत्र तु द्वित्वाऽसंभवात् द्वित्वाऽभावेऽपीति दृश्यम् । त्तिरिति-चरणं 'समज' ५-१-९९ इति समावेशार्थत्वात् 'थ्रवादिभ्य:' ५-१-९२ क्तिः । प्रफुल्ल इति-त्रिफलेत्यस्य यदा फलति स्मेति वाक्ये क्तस्तदा 'आदित:' ४-४-७१ इति नित्यमिडऽभावः, फलितुमारब्ध इति आरम्भे क्ते तु 'नवा भावारम्भे' ४-४-७२ इति वेट , फलनिष्पत्तावित्यस्य तु नित्यमिट् । चञ्चार्यत इति-चरन्तं प्रयुङक्ते णिग् वृद्धिः चारयतीति क्विप् 'णेरनिटि' ४-३-८३ चारिवाचरति 'कर्तु : क्विप्' ३-४-२५ गहितं चारति एवं पंफाल्यते इति ।
ऋमतां रीः॥ ४. १. ५५ ॥
ऋकारवतां धातूनां यङन्तानां द्वित्वे सति पूर्वस्य रीरन्तो भवति । नतेच-नरीनत्यते, दृश-दरीदृश्यते, वृतूङ् वरीवृत्यते, वृधूङ वरीवृध्यते, कृपौङ्-चलीक्कृप्यते, धज दरीधज्यते, प्रच्छंत-परीपृच्छयते, ओवश्चौत वरीवृश्च्यते, ग्रहीश-जरीगृह्यते, प्रच्छिवश्चिग्रहीणामकारे कृते ऋमत्त्वम् । ऋमतामिति किम् ? चेक्रीयते , जेहीयते । कृगहगो रोभावे कृते द्वित्वमिति ऋमत्त्वं नास्ति, बहुवचननिर्देशो लाक्षणिकपरिग्रहार्थः ।।५५।।
न्या० स:-ऋमतां-चलीक्लप्यते-द्वित्वात् प्रागेव 'ऋर ललम्' २-३-९९ इत्यस्य प्रवृत्तौ ततो द्वित्वे * ऋकारोपदिष्टम् * इति न्यायेन लुकारस्याप्यात् । दरीधज्यते इतिइकारोपान्त्यमिति केचित्तन्मते भृशं ध्रिजति देध्रिज्यते इति । चेक्रीयते इति-'ऋतो री:' '४-३-१०९ ततो द्वित्वम् ।
रिरौ च लुपि ॥ ४. १, ५६ ॥