________________
८८ ]
बृहद्वृत्ति - लघुन्यास संवलिते
न्या० स० - आगुणा०- न भविष्यन्ति न्यादयो यस्य असावऽन्यादिः तस्य ।
अपवादत्वान्न्यादय एवेति न्यादीनां तु संबन्धिनोऽन्तस्य विधानसामर्थ्यान्न प्राप्तिः, अत पूर्वस्यैव प्राप्नुत आगुणौ । सन्वत्कार्यमिति सन्वत्कार्यबाधे त्वचाकरदित्य निष्टं स्यात् ।
-
[ पाद- १, सूत्र- ४९-५२
नाको लुपि ॥ ४. १. ४१ ॥
ओहांक् त्यागे इत्यस्य द्वित्वे सति पूर्वस्य यङो लुप्याकारो न भवति । जहाति, जहेति । लुपीति किम् ? जेहीयते ॥ ४६ ॥
वञ्च-स्रन्स-ध्वन्स-भ्र ंश-कस-पत-पद-स्कन्दोऽन्तो नीः ।। ४.१.५० ।।
एषां यङन्तानां द्वित्वे सति पूर्वस्य नीरन्तोऽवयवो भवति । वनीवच्यते, वनीववीति, सनीस्रस्यते, सनीखसीति, दनीध्वस्यते, दनीध्वंसीति, बनीभ्रश्यते, बनीभ्रं शीति, चनीकस्यते चनोकसोति, पनीपत्यते, पनीपतीति, पनीपद्यते, पनीपदीति, चनीस्कद्यते, चनीस्कन्दीति । दोर्घविधानाद्धस्वो न भवति ॥ ५० ॥
न्या० स० - वञ्चत्र स० - द्युतादिध्वंससाहचर्यात् स्रसूङ इत्यस्यैव द्युतादित्र सो ग्रहः, सूङ प्रमादे इत्यस्य तु सास्रस्यत इति भवति । भ्रंशिरपि भ्रंशूङिति भ्वादिरेव गृह्यते भ्वादिध्वंस् साहचर्यात् । भृशुच् भ्रंशुच् इत्यस्य तु बाभ्रश्यत इत्येव ।
मुरतोऽनुनासिकस्य ।। ४. १. ५१ ।।
अकारात्परो योऽनुनासिकस्तदन्तस्य धातोर्यङन्तस्य द्वित्वे सति पूर्वस्य मुरन्तो भवति । बम्भण्यते, बम्भणीति, तन्तन्यते तन्तनीति, जङ्गम्यते, जङ्गमीति । यलवानामनुनासिकत्वे तन्तय्यँते, तन्तयें, चंचल्यँते, चञ्चलें, मंमघते, मंमवें । अननुनासिकत्वे, तातय्यते, तातयः, चाचल्यते, चाचलः, मामव्यते, मामवः । श्रत इति किम् ? तेतिम्यते, जोघुण्यते, बाभाम्यते । अनुनासिकस्येति किम् ? पापच्यते ॥ ५१ ॥
न्या० स०- मुरतो०- बाभाम्यते इति भामि क्रोधे इत्यस्य रूपम्, ये त्वनुनासिकान्तस्य धातोद्वित्वे सति पूर्वस्यात इति विशेषणं मन्यन्ते तन्मते बंभाम्यत इति तन्मतसंग्रहायात इति षष्ठी व्याख्येया ।
जप- जभ-दह-दश-भञ्ज - पशः ॥ ४. १. ५२ ॥
एषां यङन्तानां द्वित्वे सति पूर्वस्य मुरन्तो भवति । जंजप्यते, जंजपीति, जंजभ्यते, जंजभीति, दंदह्यते, दंदहीति, दंदश्यते, दंदशीति, बम्भज्यते, बम्भञ्जीति, पशिति सौत्रो धातुः, पंपश्यते, पंपशीति । दशिति लुप्तनकार निर्देशात् यङो लुप्यपि दंशेर्नलोपो भवति । अन्यस्तु नलोपं नेच्छति तेन ददंशीति ॥५२॥
*
न्या० स० जपजभ०-पस इति दन्त्यान्तं न्यासकारादयो मेनिरे, भोजस्तु तालव्या