________________
पाद- ४, सूत्र- ८८-९२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ७३
श्रविशेषेणेति कर्मणि सत्यऽसति वेत्यर्थः, अविशेषेणेत्युक्तेऽपि कर्मणि 'न कर्मणा त्रिच्' ३-४-८८ इति नित्यं प्रतिषेधः अकर्मणि तु विकल्पः ।
न कर्मणा ञिच् ॥ ३. ४.८८ ॥
पचिदुहे: कर्मणा योगेऽनन्तरोक्ते कर्तरि त्रिच् न भवति । प्रपक्तोदुम्बरः फलं स्वयमेव, अदुग्ध गौः पयः स्वयमेव । कर्मणेति किम् ? अपाच्योदनः स्वयमेव, अदोहि गौः स्वयमेव । श्रनन्तरोक्ते कर्तरीत्येव प्रपाचि उदुम्बरः फलं वायुना, अदोहि गौः पयो गोपालकेन ।। ८ ।।
रुधः । ३. ४. ८१ ॥
vai धातोरनन्तरोक्ते कर्तरि ञिच् न भवति । अरुद्ध गौः स्वयमेव, अनन्तरोक्ते कर्तरीत्येव - अरोधि गौर्गोपालकेन ॥८६॥
स्वर- दुहो वा । ३. ४. १०॥
स्वरान्ताद्धातोदु हेश्वानन्तरोक्ते कर्तरि ञिच वा न भवति । अकृत अकारि कटः स्वयमेव, अलविष्ट अलावि केदारः स्वयमेव अदुग्ध प्रदोहि गौः स्वयमेव । स्वरदुह इति किम् ? अमेदि कुशूल: स्वयमेव । अनन्तरोक्ते कर्तरीत्येव, अकारि कटश्चेत्रेण, अदोहि गौर्बल्लवेन ॥ ६० ॥
तपः कर्त्रनुतापे च ॥ ३. ४. ११ ॥
तपेर्धातोः कर्मकर्तरि कर्तरि अनुतापे चार्थे ञिच् न भवति । अनुतापग्रहरणाद्भावे कर्मणि च । श्रन्ववतप्त कितवः स्वयमेव । कर्तरि प्रतप्त तपासि साधुः, अन्वतप्त चैत्रेण, अन्ववतप्त पापः पापेन कर्मणा । कर्त्रनुतापे चेति किम् ? प्रतापि पृथिवी राज्ञा ||१||
न्या० स० - तपकत्र - नन्वनेन सामान्येन सानुतापेऽननुतापे च कर्त्तरि कर्मकर्त्तरि च भविष्यति किमनुतापग्रहणे नेत्याशङ्क्याह- अनुतापग्रहरणादिति । अन्वतप्त चैत्रेणेति पश्चात्तपनं कृतमित्यर्थः, अग्रेतने तु पश्चात्तापं कारित इत्यर्थः ।
णि स्नु- श्रूयात्मनेपदाकर्मकात् ।। ३. ४. १२ ॥
ण्यन्ताद्धातोः स्तुश्रिभ्यां चात्मनेपदविधावकर्मकेभ्यश्च कर्मकर्तरि ञिच न भवति । येभ्यः कर्मण्यसति आत्मनेपदं विधीयते, ते आत्मनेपदाकर्मकाः । णि-पचति ओदनं चैत्रः, तं मैत्रः प्रायुक्त, पीपचत् ओदनं चैत्रेण मैत्रः । पुनरोदनस्य सुकरत्वेन कर्तृत्वे अपीपचतौदनः स्वयमेव । यदि वा स्वयमेव पच्यमानः ओदनः स्वं प्रायुक्तं अपीपचतौदनः स्वयमेव, उभयत्र स्वयमेवापाचीत्येवार्थः ।