________________
७२ ]
बृहवृत्ति-लघुन्याससंवलिते
[ पाद-४, सूत्र-८७
न्या० स०-एकधातौ०-पूर्वदृष्टयेति-पूर्वस्मिन् काले दृष्टा तया सहार्थे तृतीया । अकारि कटः स्वयमेवेति-अकार्षीत् कटं देवदत्तः, स एवं विवक्षते-नाहमकार्षम् , अकारि कटः स्वयमेव, स्वयं शब्दस्तृतीयार्थे करणे कारके वर्त्तते । अमेदि कुशूलः स्वयमेवेतिअभैत्सीत् अभिदद्वा कुशूलं देवदत्तः द्विधा भवन्तं द्वधा अबीभवत्, स एवं विवक्षते नाहमभिदम् अभैत्सं वा किंतु स्वयमेवाऽभेदि । सिध्यत्योदनः स्वयमेवेति-नन्वत्र यथा धातभेदस्तथा धातुभेदे क्रियाभेदोऽपि ? नैवं, एकाभिन्ना क्रियेत्येकधाताविति स्थिते द्रष्टव्यमिति न व्यङ्गवैकल्यम् ।
निष्कामतीति क्रियाभेदादिति-विसर्ग: विसर्जनमात्र, निष्क्रमणं तु विसर्गानन्तरं गमन मिति विसर्जननिष्क्रमणयोर्भेदः, अत्र विसृजति उदकं कुण्डिका, सा एवं विवक्षते, नाहं विसृजामि किन्तु स्वयमेव निष्क्रामतीति विवक्षायां न भवति, यदा तु स्वयमेव विसृज्यते इति विवक्ष्यते तदा क्यादयो भवन्ति वा नवा ? उच्यते, शब्दशक्तिस्वाभाव्यात स्वयमेव विसृज्यत इत्यर्थो न प्रतीयते किन्तु निष्क्रामतीत्येव । भिद्यमानः कुशूल: पात्राणि भिनत्तीति-नन्वत्र व्यङ्गविकलत्वं व्यावृत्तेर्यतः प्रथमो देवदत्तकर्तृ को द्वितोयस्तु कुशूलकर्तृक इतिसाधनभेदात् क्रियाभेदे धातुभेद: ? न, स्याद्वादादत्र धातुभेदो नाश्रीयते, अन्यथा सूत्रमिदं निरर्थकं स्यात् । यतोऽकारि कट: स्वयमेवेत्यत्रापि इत्थं धातभेदसदभावात् , तथाहि-प्रथमं देवदत्तकर्तृकः कृग् , पश्चात् कटकर्तृक: । स्वातन्त्र्यमनुभूयेतियतः कटं करोतीत्यादिषु स्वव्यापारे जननादिलक्षणे कटादि कर्म स्वातन्त्र्यमनुभवति स्वातल्याच्च कर्तृत्वम् । कञन्तराणां व्यापारे इति-स्वव्यापारे स्वातन्त्र्यात् कटादिकर्मणः कर्तृ रूपादऽन्यो वरुटादिः कर्ता कञन्तरं तस्य ।
निवृत्तप्रेषणमिति-निवृत्तकर्तृव्यापारमित्यर्थः ।
पचिदुहेः ।। ३. ४.८७॥
पचिदुहिम्यामेकधातौ कर्मस्थक्रियया पूर्वदृष्टयाऽमिकया सर्मिकया वा, एकक्रिये कर्लरि कर्मकर्तृरूपे जिक्यात्मनेपदानि भवन्ति अपवादविषयं मुक्त्वा।
___ अपाच्योदनः स्वयमेव, पच्यते प्रोदनः स्वयमेव, पक्ष्यते ओदनः स्वयमेव, प्रदोहि गौः स्वयमेव, दुग्धे गौः स्वयमेव, अदुग्ध गौः स्वयमेव । उदुम्बरं फलं पचति वायुः, उदुम्बरः फलं पच्यते स्वयमेव, अपक्तोदुम्बरः फलं स्वयमेव । गां दोग्धि पयो गोपालकः, दुग्धे गौः पयः स्वयमेव, अदुग्ध गौः पयः स्वयमेव, अधुक्षत गौः पयः स्वयमेव, दुहिपच्योः कर्मणि जिचः प्रतिषेधं वक्ष्यति । तथा अविशेषेण दुहेजिचो विकल्पं क्यस्य च प्रतिषेधं वक्ष्यति, अकर्मकस्येह पूर्वेणैव सिद्धे सकर्मकाथं वचनम् ॥७॥
न्या० स०-पचिदुहेः-अकर्मिकयेति-अकर्मकत्वे पूर्वेण सिद्धमऽप्यनूद्यते सूत्रारम्भात् , अनेन तु कर्मणि विधीयते तमुत्र कर्मणीत्युच्यताम् ? न, एवं कृते पचिदुह्योः * तक्रकौण्डिन्यन्यायेन * सत्येव कर्मणि स्यात् कर्मण्यऽसति पूर्वेणापि न स्यात् । उदुम्बरं फलं पचति वायुरिति-अयमन्तर्भूतण्यर्थो द्विकर्मकः, उदुम्बरात् फलं पाचयति वायुरित्यर्थः ।