________________
७४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[ पाद-४, सूत्र-६३
अचूचुरत् गां चैत्र, अचुचूरत गौः स्वयमेव । पुच्छमुरिक्षपति उत्पुच्छयते गौः। अन्तर्भूतण्यर्थत्वात्सकर्मकत्वे उदपुपुच्छत गां देवदत्तः, उदपुपुच्छत गौः स्वयमेव । यद्वा उत्पुच्छामकार्षीदिति णिचि उदपुपुच्छदगां देवदत्तः, उदपुपुच्छतः गौः स्वयमेव । स्तुप्रास्नावीव गां देवदत्तः, प्रास्नोष्ट गौः स्वयमेव । श्रि-उदशिश्रियत् दण्डं दण्डी, उदशिश्रियत दण्डः स्वयमेव, आत्मनेपदाकर्मक, व्यकार्षीत् सन्धवं चैत्रः, वल्गयति स्मेत्यर्थः ।
व्यकृत सैन्धवः स्वयमेव, विकरोतिर्वल्गनेऽन्तर्भूतण्यर्थः कर्मस्थक्रियः, व्यकार्षीत कटं चैत्रः, व्यकृत कटः स्वयमेव, अवधीव गां गोपः, आहत गौः स्वयमेव । व्यताप्सीत् पृथिवीं रविः । व्यतप्त पृथ्वी स्वयमेव, प्रिनिशेधात् जिट् भवत्येव । पाचिता, पाचिषीष्ट प्रोदनः स्वयमेव, प्रास्नाविष्ट प्रस्नाविषीष्ट गौः स्वयमेव, उच्छायिता उच्छायिषीष्ट दण्डः स्वयमेव । आघानिष्ट आधानिषीष्ट गौः स्वयमेव । पृथग्योगात् उत्तरेण जिटः प्रतिषेधो न भवति ॥२॥
न्या० स०-णिस्नु०-अपीपचतौदनः स्वयमेवेति-अत्र प्रयोजकव्यापाराविवक्षायां णिग् न निवर्तते, ण्यन्तानां त्रिच्प्रतिषेधात् । स्वयं पच्यमान ओदनः स्वं प्रायुक्तेति ततोऽपीपचदोदनः स्वमात्मानमित्यर्थः । स ओदनः विवक्षते-नाहमात्मानमपीपचम् , नाहमात्मानं सिध्यन्तमऽसोसधं किं तर्हि ? स्वयमोदनोऽपीपचत असीसधत इत्यर्थः, प्रास्नोष्ट गौरितिअत्र पूर्वमेव नित्यत्वादन्तरङ्गत्वाच्च गुणः ।
प्रात्मनेपदाकर्मकेति-येषामकर्मकाणामात्मनेपदं व्यवधायि तेषामित्यर्थः । भूषार्थ-सन्-कियादिभ्यश्च विक्यौ ॥ ३. ४. १३ ॥
भूषार्थेभ्यः सन्नन्तेभ्यः किरादिभ्यश्चकाराण्णिश्नुयात्मनेपदाकर्मकेभ्यश्च धातुभ्यः कर्मकर्तरि जिक्यौ न भवतः। निरुत्सृष्टानुबन्धो जिनिटोग्रहणार्थः । भूषार्थ-प्रलमकार्षीत् कन्यां चैत्रः, अलमकृत कन्या स्वयमेव, एवमलंकरिष्यते प्रलंकुरुते कन्या स्वयमेव, पर्यस्कार्षात्कन्यां चैत्रः, पर्यस्कृत परिष्करिष्यते परिष्कुरुते कन्या स्वयमेव, अबूभुषत् कन्यां छात्त्रः, अबूभुषत भूषयिष्यते भूषयते कन्या स्वयमेव, अममण्डत् कन्या छात्रः अममण्डत मण्डयिष्यते मण्डयते कन्या स्वयमेव, भूषिमण्डयोर्ण्यन्तत्वेनैव निषेधे सिद्ध जिप्रतिषेधार्थ भूषार्थषूदाहरणम् ।
___ सन्नन्त-अचिकीर्षात् कटं चैत्रः । अचिकीर्षीष्ट, चिकोषिष्यते, चिकीर्षते कटः स्वयमेव, अबिभित्सात् कुशूलं चैत्रः, अबिभित्सिष्ट बिभित्सिष्यते बिभित्सते कुशूलः स्वयमेव, किरादि-अकारीत्पांसुकरी, अकोष्ट कोर्षीष्ट किरते पांसुः स्वयमेव, एवमवाकीट अवकोर्षीष्ट अवकिरते पांसुः स्वयमेव, अगारीत् ग्रासं चैत्रः, अगोष्ट गीर्षोष्ट गिरते ग्रासः स्वयमेव, एवं न्यगीष्ट निगोर्षीष्ट निगिरते यासः स्वयमेव, दोन्धि गां पयो गोपः, दुग्धेः गौः स्वयमेव, दुग्धे गौः पयः स्वयमेव, कथमदोहि गौः स्वयमेव, दुहेजिज्विकल्प उक्तः। अवोचत्कथां चैत्रः। अवोचत ब्रूते कथा स्वयमेव । अश्रन्थीत् मालां मालिकः। अश्रन्थिष्ट श्रथ्नीते श्रन्थते माला स्वयमेव । अग्रन्थीत् ग्रन्थं विद्वान् । अग्रन्थिष्ट प्रथ्नीते