________________
पाद–४, सूत्र- ४५-४६ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ५९
स्वरादेरिति येन नाप्राप्त इति न्यायेनान्तलोपस्य बाधकत्वेन आकार विधानात् अकारस्यैव प्रथमं ‘त्रन्त्यस्वरादेः' ७-४-४३ इत्यन्त्यलोपो न भवति ।
श्वेताश्वाश्वतर-गालोडिताऽऽरकस्याश्वतरेतक लुक् ॥ ३. ४. ४५ ॥
1
श्वेताश्व, अश्वतर, गालोडित, श्राह्वरक इत्येतेषां णिच्संनियोगे यथासंख्यमश्वतरेतक इत्येतेषां लुग्भवति । श्वेताश्वमाचष्टे करोति वा श्वेताश्वेनातिक्रामतीति वा श्वेतयति, एवमश्वयति, गालोडितमाचष्टे करोति वा गालोडयति एवमाह्वरयति । लुगर्थं वचनं णिच् तु सर्वत्र पूर्वेण सिद्ध एव ।। ४५ ।।
न्या० स० श्वेताश्व० - श्वेतयतीत्याष्वनेन सस्वराणामेवाश्वादीनां लुक्, न तु त्रन्त्यस्वरादेरित्यकार लोपे सति विशेषविधानात् अश्वादिलोपात्पश्चादपि त्रन्त्यस्वरादेरित्यन्त्यस्वरादेर्न लुक्, ‘सकृत् बाधित' इति न्यायात्, श्वेतयीत्यादिषु अन्त्यस्वरादेर्लोपेऽपि न किंचिद् विनश्यति । गालोडयतीत्यत्र तु अनेन इतलोपे ' त्रन्त्यस्वरादेः ' ७-४-४३ इत्योड - लोपे सति गालयतीति स्यात्, 'लोङ उन्मादे', लोडनं क्लीबे क्तः गोर्लोडितम्, अथवा गुप्तं लोडितं क्षीरस्वामिना पृषोदरादिः । नन्वतिहस्तयतीतिवत् श्वेतयतीत्यत्राप्यतिशब्दप्रयोगः प्राप्नोति ? न, अत्र शब्दशक्तिस्वाभाव्यादतिशब्दमन्तरेणापि तदर्थप्रतीति: ।
धातोरनेकस्वर दाम् परोक्षायाः कृभ्वस्ति चानु तदन्तम्
॥ ३. ४. ४६ ॥
अनेकस्वराद्धातोः परस्याः परोक्षाया: स्थाने आमादेशो भवति, श्रामन्ताच्च परे कृभ्वस्तयो धातवः परोक्षान्ता अनु पश्चादनन्तरं प्रयुज्यन्ते । चकासांचकार, चकासांबभूव, चकासामास, चुलुम्पांचकार, चुलुम्पांबभूव, चुलुम्पामास, लोलूयां चक्रे, लोलूयांबभूव, लोलूयामास । अस्तेर्भूर्न भवति विधानबलात् । अनेकस्वरादिति किम् ? पपाच । कश्चित्तु प्रत्ययान्तादेकस्वरादपीच्छति, - गौरिवाचचार गवांचकार, गवांबभूव, गवामास एवं स्वांचकारेत्यादि । अनुग्रहणं विपर्यासव्यवहितनिवृत्त्यर्थम् तेन चकारचकासाम् ईहांदेवदत्तश्चक्रे इत्यादि न भवति । उपसर्गस्य तु क्रियाविशेषकत्वात् व्यवधायकत्वं नास्ति । तेन 'उक्षां प्रचक्रुर्नगरस्य मार्गान्' इत्यादि भवत्येव ||४६॥
"
न्या० स० धातोर० धातुग्रहणाभावे उपसर्गपूर्वादेरपि स्यात् । लोलूयांचक्रे इति - ' आम: कृग : ' ३-३-७५ इति नियमदामः परात् कृग एवात्मनेपदं न भ्वस्तिभ्याम् । पपाचेति-द्विर्वचने कृते त्वनेकस्वरत्वेऽपि संनिपातेति न्यायान्न भवति, विहितविशेषणाद् वा, यद्यनेकस्वराद् विहितो भवति । उपसर्गस्य त्विति ननु कर्त्राद्यपि क्रियाया विशेषकं भवतीति तस्याप्यव्यवधायकत्वं प्राप्नोति ? नैवं क्रियाया एव विशेषकमित्यवधारणस्य विवक्षितत्वात् कर्त्रादि च यथा क्रियाया विशेषकं तथा द्रव्यस्यापीति, तथा तं पातयां प्रथममासेति कथंचित्समर्थ्यते, प्रथममित्यस्य क्रियाविशेषणत्वात् । प्रभ्रंशयां यो नहुषं चकारेति स्वतिदुष्टम् ।
,