________________
६० ]
बृहद्वृत्ति- लघुन्याससंवलिते
[ पाद- ४, सूत्र - ४७-५०
दयायास्कासः । ३. ४. ४७ ॥
दय्, अय्, आस्, कास् इत्येतेभ्यो धातुभ्यः परस्याः परोक्षायाः स्थाने आमादेशो भवति आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते । दयांचक्रे, दयांबभूव, दयामास पलायांचक्रे पलायांबभूव, पलायामास, आसांचक्रे, आसांबभूव, आसामास, कासांचक्रे, कासांबभूव, कासामास ॥४७॥
गुरुनाम्यादेरनृच्छूर्णोः ॥। ३. ४. ४८ ॥
गुरुर्नाम श्रादिर्यस्य तस्माद्धातोॠच्छूणु वर्जितात् परस्याः परोक्षायाः स्थाने आमादेशो भवति, आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते । ईहांचक्रे, ईहांबभूव, ईहामास, उञ्छांचकार, व्युछांचकार, उब्जांचकार । गुरुग्रहणं किम् ? इयेष । नामिग्रहणं किम् ? आमचं । आदिग्रहणं किम् ? निनाय । ईङस्तु व्यपदेशिवद्भावाद्भवति-अयांचक्र, अबभूव, अयामास, ईषतुः ईषुः इत्यत्र संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति न भवति । अनृच्छ्रर्णोरिति किम् ? आनच्छं, प्रोर्णुनाव । अत एव ऋच्छप्रतिषेधासंयोगे परे पूर्वो गुरुरिति विज्ञायते ॥ ४८ ॥
न्या० स० गुरुनाम्यादे० - गुरुग्रहणं नामिनो विशेषणं न घातो:, धातुविशेषणे हि इयेष इत्यत्रापि स्यात् । व्यपदेशिवद्भावादिति - धातुपारायणकृता तु व्यपदेशिवद्भावो स्तन्मते ईये इत्येव भवति ।
जाग्रुपसमिन्धेर्नवा । ३. ४. ४१ ॥
जागू, उष, सम्पूर्व इन्ध इत्येतेभ्यो धातुभ्यः परस्या: परोक्षाया: स्थाने आमादेशो वा भवति, आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते । जागरांचकार, जागरांबभूव, जागरामास, जजागार, ओषांचकार, उवोष, समिन्धांचक्रे, समीध | सम्ग्रहणं किम् ? इन्धांचक्र, प्रेन्धांचक्रे । सोपसर्गादिन्धेराम् न भवत्येवेति कश्चित् अन्ये तु परोक्षायामिन्धेरामन्तस्यैव प्रयोग इत्याहु: । समोऽन्यत्रापि इन्धेराम्विकल्प इत्यन्यः । इन्धांचक्रे ईधे इति ॥ ४६ ॥
भी-डी-भू-होस्तव्वत् || ३. ४.५० ॥
भी, हो, भृहु इत्येतेभ्यो धातुभ्यः परस्याः परोक्षायाः स्थाने आमादेशो वा भवति, स च तिव्वत् श्रामन्ताच्च परे कृम्बस्तयः परोक्षान्ता अनु प्रयुज्यन्ते । बिभयांचकार, बिभयांबभूव, बिभायमास, बिभाय, जिह्रयांचकार, जिहाय, बिभरांचकार, बभार, जुहवांचकार, जुहाव, जुहवांचक्रे, जुहुवे । तिब्वद्भावाद्वित्वमित्वं चेति ॥ ५० ॥
न्या० स० भीही० - जुहवांचक्रे इति - अत्र 'क्यः शिति' ३-४-७० इति क्यो न भवति, शितीति सामान्योक्तेऽपि क्यस्य भावे कर्मणि च विधानाच्छित् प्रत्ययोऽपि भावकर्म -