________________
बृहद्वृत्ति-लघुन्याससंवलिते [ पाद- ४, सूत्र - ४३-४४
पामिन उल्लाघयतीति - पाप्मा पापमस्त्येषां शिखादित्वादिन् पाप्मिनामुल्लाघं करोति । त्रिलोकीमिति - त्रिभुवनीति तु न तस्य पात्रादौ दर्शनात् । तदुक्तं सदपीच्छाक्यन इति यथा जंगम्यते इत्यादौ यद्यपि भृशं गच्छति, तथापि कुटिलं गच्छति इत्येव प्रतीयते न भृशार्थस्तथाऽत्रापि इच्छाक्यन: कर्म विद्यमानमपि आचारक्यना हतं सद्वृत्तौ आख्यातवृत्तौ न प्रतीयते ।
५८ ]
उभयधर्म विधाने इति कश्चिन्मृन्मयं बलीवर्दं करोति, तत्र च मुण्डत्वं बलीवर्दत्वं च धर्मद्वयं विधत्ते, तत्र न भवति, मुण्डं प्रसिद्धमनूद्याप्रसिद्धं शुक्लं करोतीत्यनुवादे च न भवत्यनभिधानात् । पटयतीति अत्र वार्तिककारो वृद्धिमनिच्छन्नपपटदिति मन्यते, स्वमते तु वृद्धावसमानस्यौकारस्य लोपे सन्वद्भावादपीपटदिति भवति । त्वचयतीति - नन्वत्र ‘नैकस्वरस्य’ ७-४-४४ इत्यन्त्यस्वरादिलोपनिषेवे वृद्ध्यां त्वाचयततीति प्राप्नोति तत्कथमित्याह त्वचशब्द इत्यादि अत्र व्यञ्जनान्तं त्वक्शब्दं परित्यज्य स्वरान्तपाठेन ज्ञाप्यते क्वचिन्नाम्नोऽप्यतो 'ञ्णिति' ४-३ - ५० इति वृद्धिर्भवति, यथा त्वापयति मापयतीति । ततश्चात्र व्यञ्जनान्तस्य वृद्धौ त्वाचयतीत्यनिष्टं रूपमापाद्येत ।
तुलैरनुकृष्णातीति- तुलैः कृत्वा अनुकूलं, अवाक् च यथा भवति, एवमन्तरवयवान् बहिनिकासति - निःसारयतीत्यर्थः । अनुकुष्णात्यवकुष्णात्यनयोरुभयोः साधरणोऽर्थोऽनुगृह्णातीति यतोऽत्रान्वर्थेऽवः । इन्द्रियाणां जयमिति- इन्द्रियजयं करोतीत्येवमपि कृते न भवति बाहुलकादेव, यथा विपाशयतीति पाशिक्रिया हि विमोचनसंयमाद्यनेकविशेषणविशिष्टा सती प्रत्ययवाच्या ततश्चोपसर्गप्रयोगाभावे एकतरेणापि विशेषणेन वैशिष्ट्यं न प्रतीयते ।
भांडते इति-शब्दशक्तिस्वाभाव्यात् प्रत्ययेनाङर्थः प्रतिपाद्यते न समर्थ इत्याभाण्डयते इत्यादि न भवति ।
व्रताद् भुजि- तन्निवृत्त्योः ॥ ३. ४. ४३ ॥
व्रतं शास्त्रविहितो नियमः - व्रतशब्दाद्भोजने तन्निवृत्तौ च वर्तमानात्कृगादिष्वर्थेषु णिच् प्रत्ययो भवति बहुलम्। पय एव मया भोक्तव्यमिति व्रतं करोति गृह्णाति वा यो व्रतयति, सावद्यान्नं मया न भोक्तव्यमिति व्रतं करोति, गृह्णाति वासावद्यान्नं व्रतयति । अर्थनियमार्थ आरम्भः ॥ ४३ ॥
न्या० स० व्रताद् भुजि० - अर्थनियमार्थ आरम्भ इति यदि बहुलग्रहणस्य प्रयोगानुसरणार्थत्वात् अर्थनियमो भविष्यतीत्युच्यते तदा तत्प्रपञ्चार्थोऽयमित्यदोषः, उक्तं हि'ते वै विधयः सुसंगृहीता भवन्ति येषां लक्षणं प्रपञ्चश्च' ।
सत्यार्थवेदस्याः ।। ३. ४. ४४ ॥
सत्यार्थवेद इत्येतेषां णिचसंनियोगे आकारोऽन्तादेशो भवति । सत्यमाचष्टे करोति सत्यापयति, एवमर्थापयति, वेदापयति । 'त्रन्त्यस्वरादेः' ( ७-४-४३ ) इत्याकारस्य लुग्न भवति विधानसामर्थ्यात् ॥ ४४ ॥
न्या० स० सत्यार्थ० - णिज्संनियोग विधानादाकारेण णिच् न बाध्यते । त्रन्त्य