________________
पाद-४, सूत्र-४२ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः।
[५७
सदपीच्छाक्यनः कर्म, तदाचारक्यना हृतम् ।
कौटिल्येनैव गत्यर्थाभ्यासो वृत्तौ न गम्यते ॥१।। मुण्डं बलीव करोतीति उभयधर्मविधाने मुण्डं शुक्लं करोतीत्यनुवादे वानभिधानान्न भवति । पटुमाचष्टे करोति वा पटयति, एवं स्थूलं स्थवयति, दूरं दवयति, युवानं यवयति, क्षिप्रं क्षेपयति, क्षुद्रं क्षोदयति, प्रियं प्रापयति, स्थिरं स्थापयति, स्फिरं स्फापयति, पुच्छं पुच्छयति, वृक्षमाचष्टे रोपयति वा वृक्षयति, कृतं गृह्णाति कृतयति, एवं वर्णयति, त्वचयति त्वचशब्दोऽकारान्तस्त्वपर्यायः, रूपं दर्शयति रूपयति-रूपं निध्यायति-निरूपयति, लोमान्यनुमाष्टि-अनुलोमयति, तूस्तानि विहन्ति उद्वहति वा-वितूस्तयति,-उत्तूस्तयति केशान्-विजटीकरोतीत्यर्थः । वस्त्रं वस्त्रेण वा समाच्छादयति संवस्त्रयति, वस्त्रं परिदधाति परिवस्त्रयति, तृणान्युत्प्लुत्य शातयति उत्तणयति, हस्तिनातिकामति अतिहस्तयति, एवमत्यश्वयति, वर्मणा संनयति संवर्मयति, वीणया उपगायति उपवीणयति, सेनया अभियाति अभिषणयति. चूर्णैरवध्वंसयति, अवकिरति वा अवचूर्णयति , तूलैरनुकुष्णाति अवकुष्णाति अनुगह्णाति वा अनुतूलयति अवतूलयति, वास्या छिनत्ति वासयति, एवं परशुना परशयति, असिना असयति, वास्या परिच्छिनत्ति परिवासयति, वाससा उन्मोचयति, उद्वासयति, श्लोकैरुपस्तौति उपश्लोकयति, हस्तेनापक्षिपति अपहस्तयति, अश्वेन संयुनक्ति समश्वयति, गन्धेनार्चयति गन्धयति, एवं पुष्पयति । बलेन सहते बलयति, शीलेनाचरति शीलयति, एवं सामयति, सान्त्वयति, छन्दसोपचरति उपमन्त्रयते वा उपच्छन्दयति, पाशेन संयच्छति संपाशयति, पाशं पाशाद्वा विमोचयति विपाशयति, शूरो भवति शूरयति, वीर उत्सहते वीरयति, कूलमुल्लङ्घयति उत्कूलयति, कूलं प्रतीपं गच्छति प्रतिकूलयति, कूलमनुगच्छति अनुकूलयति, लोष्टानवमर्दयति अवलोष्टयति, पुत्रं सूते पुत्रयति इत्यादि ।
___ आख्यानं नलोपाख्यानं कंसवधं, सीताहरणं, रामप्रव्रजनं, राजागमनं, मगरमणम्, आरात्रिविवासमाचष्टे इत्यादिषु इन्द्रियाणां जयं, क्षीरस्य पानं, देवानां यागं, धान्यस्य क्रयं, धनस्य त्यागम् , प्रोदनस्य पाकं करोतीत्यादिषु च बहुलवचनान्न भवति ।
अथ हस्तौ निरस्यति, हस्तयते, पादयते इत्यादिवदुत्पुच्छयते इत्यादावप्युपसर्गस्याप्रयोगः प्राप्नोति ? नैवम् , यत्रानेकविशेषणविशिष्टा क्रिया प्रत्ययार्थस्तत्र क्रियाविशेषाभिव्यक्तये युक्त उपसर्गप्रयोगः, यथा-विपाशयति संपाशयतीति । यत्र त्वेकविशेषणविशिष्टा क्रिया प्रत्ययार्थस्तत्र संदेहाभावादुपसर्गो न प्रयुज्यते, यथा श्येन इवाचरति श्येनायते, बाष्पमुद्वमति बाष्पायते, हस्तौ निरस्यति हस्तयते, पुत्रमिवाचरति पुत्रीयति । यद्येवमतिहस्तयति, उपवीणयति इत्यादावेककविशेषणविशिष्टत्वादुपसर्गप्रयोगो न प्राप्नोति ? मैवं, अत्र णिच्प्रत्ययस्य करोत्याचष्टेऽतिकामति इत्याद्यनेकार्थत्वात् संदेहे तदभिव्यक्त्यर्थमुपसर्गप्रयोगः,-यत्र पुनरनेकोपसर्गविशिष्टा क्रिया प्रत्ययार्थस्तत्र शब्दशक्तिस्वाभाव्यादेक एवोपसर्गार्थः प्रत्ययार्थेऽन्तर्भवति द्वितीयस्तपसर्गेणैव प्रत्याय्यते यथा-भाण्डं समाचिनोति-संभाण्डयते, वस्त्रं वस्त्रेण वा समाच्छादयति संवस्त्रयतीति ।। ४२ ।।
न्या० स० णिज्बहुलं०-व्याकरणं सूत्रयतीत्यादौ-सापेक्षत्वेऽपि गणपाठाण्णिजिष्यते।