________________
बृहद्वृत्ति-लघुन्याससंवलिते
[ पाद- ४, सूत्र - ३९-४२
न्या० स० प्रङ्गान्निर० - कर्मण इति - ' रोमन्थाद्व्याप्यात्' ३-४-३२ इत्यतो व्याप्यादित्यनुवर्त्तते तत्पर्यायतया च प्रसिद्धं सत् कर्मण इत्येव लिखितम् । हस्तयतीतिणिजपवादस्य णिङोऽभावादत्र णिजेव ।
५६ ]
पुच्छादुत्परिव्यसने ॥ ३. ४. ३१॥
पुच्छशब्दात्कर्मण उदसने, पर्यसने, व्यसने, प्रसने चार्थे णिङ् प्रत्ययो वा भवति । पुच्छम् उदस्यति उत्पुच्छयते, पर्यस्यते परिपुच्छयते, व्यस्यति विपुच्छयते, अस्यति पुच्छयते ||३६||
भाण्डात् समाचितौ । ३. ४. ४० ॥
भाण्डशब्दात्कर्मणः समाचयनेऽर्थे णिङ् प्रत्ययो वा भवति । समाचयनं च समा परिणा च द्योत्यते, भाण्डानि समाचिनोति संभाण्डयते, परिभाण्डयते ||४०||
चीवरात् परिधार्जने ॥ ३. ४. ४१ ॥
चीरशब्दात्कर्मणः परिधानेऽर्जने चार्थे णिङ् प्रत्ययो वा भवति । चीवरं परिधत्ते परिचीवरयते - समाच्छादनमपि परिधानम्, चीवरं समाच्छादयति संचीवरयते, चीवरमर्जयति चीवरयते । संमार्जनेऽप्यन्ये । चीवरं संमार्जयति संचीवरयते ॥ ४१ ॥
णिज् बहुलं नाम्नः कृगादिषु ॥ ३. ४. ४२ ॥
कृगादीनां धातूनामर्थे नाम्नो णिच् प्रत्ययो भवति बहुलम्, बहुलग्रहणं प्रयोगानुसरणार्थम् तेन यस्मान्नाम्नो यद्विभक्त्यन्ताद्यस्मिन् धात्वर्थे दृश्यते तस्मात्तद्विभक्त्यन्तातद्धात्वर्थे एव भवतीति नियमो लभ्यते ।
मुण्डं करोति मुण्डयति छात्त्रम्, एवं मिश्रयत्योदनम्, श्लक्ष्णयति वस्त्रम्, लवणयति सूपम् एभ्यश्च्व्यर्थे एवेति कश्चित् । अमुण्डं मुण्डं करोति मुण्डयतीत्यादि, लघु करोति लघयति, एवं छिद्रयति, कर्णयति, दण्डयति, अन्धयति, अङ्कयति, व्याकरणस्य सूत्रं करोति व्याकरणं सूत्रयति, द्वारस्योद्घाटनं करोति द्वारमुद्घाटयति ।
ननु व्याकरणशब्दात् वाक्ये षष्ठो दृश्यते उत्पन्ने च प्रत्यये कथं द्वितीया ? उच्यते, योऽसौ सूत्रव्याकरणयोः संबन्ध:, स उत्पन्ने प्रत्यये निवर्तते सूत्रयातिक्रियासंबन्धाच्च द्वितीयैव, एवं द्वारमुद्घाटयति, पाप्मिन उल्लाघयति त्रिलोकी तिलकयतीत्याद्यपि द्रष्टव्यम् । अथ तपः करोति तपस्यतीत्यादिवत् कर्मणो वृत्तावन्तर्भू तत्वान्मुण्डिर कर्मकः प्राप्नोति ? नैवम्, सामान्यकर्मान्तर्भूतं विशेषकर्मणा तु सकर्मक एव, मुण्डयति कं छात्रमिति, यद्येवं पुत्रोयतिरपि विशेषकर्मणा सकर्मकः प्राप्नोति पुत्रीयति कं छात्रमिति ? सत्यम्, - श्राचारक्यना तु बुद्धेरपहृतत्वात् इच्छाक्यन्नन्तस्य विद्यमानमपि विशेषकर्म न प्रयुज्यते । तथाहि पुत्रीयति छात्त्रमित्युक्ते पुत्रमिवाचरति छात्त्रमिति प्रतीतिर्भवति न तु पुत्रमिच्छतीति । तदुक्तम्